सर्वः श्रिया युतस्तत्र रोगव्याधिविवर्जितः
मोदन्ते तु यथान्यायं प्रसादात्क्षेत्रजान्मम
पुनरन्यत्प्रवक्ष्यामि यद्वृत्तं सौकरे मम
तिर्यग्योनिविनिर्मुक्ताः श्वेतद्वीपमुपागताः 138.
स कुलं तारयेत्तूर्णं दश पूर्वान्दशावरान्
न पठेत्पिशुनानां च एकाकी तु पठेद्गृहे
वैष्णवानां च पुरतो यै व शास्त्रगुणान्विताः
इति श्रीवराहपुराणे खञ्जरीटोपाख्यानं नामाष्टत्रिंशदधिकशततमोऽध्यायः
अथ सौकरमाहात्म्यम् शृणु तत्त्वेन मे देवि लिप्यमानस्य यत्फलम्
गृहीत्वा गोमयं भूमे मम वेश्मोपलेपयेत्
तावद्वर्षसहस्राणि दिव्यानि दिवि मोदते
जायते विपुले शुद्धे धनधान्यसमाकुले
कुशद्वीपमनुप्राप्य सहस्राणि च जीवति
कुशद्वीपात्परिभ्रष्टो मम कर्मपरायणः
तेन तस्य प्रभावेण मम कर्मपरायणः
देवि कारयते सर्वं मम चायतनानि च
गोमयस्य तु वक्ष्यामि तच्छृणुष्व वसुन्धरे
समीपे यदि वा दूरे गत्वा नयति गोमयम् 139.
गोमयानां च नेता वै स्वर्गलोके महीयते
एकादशसहस्राणि एकादशशतानि च
मद्भक्तश्चैव जायेत सर्वधर्मविदां वरः
वहते गोमयं सुष्ठु मम लोकं स गच्छति
तस्य पुण्यं महाभागे शृणु तत्वेन निष्कलम्
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
क्रौंचद्वीपात्परिभ्रष्टो राजा भवति धार्मिकः
संमार्ज्जनं प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
शुचिर्भागवतः शुद्धो अपराधविवर्जितः
तावद्वर्षशतान्याशु स्वर्गलोके महीयते 139.
तत्र स्थित्वा चिरङ्कालं राजा भवति धार्मिकः
श्वेतद्वीपं ततो गच्छेन्मत्कर्मनिरतः शुचिः