एवमेतन्महाभाग यत्त्वया परिभाषितम्
एषा वै द्वादशी तात प्रभुनारायणप्रिया
ददतेऽस्यां प्रहृष्टाश्च द्वादश्यां कौमुदे सिते
तेन दानप्रभावेण विष्णुतोषकरेण च 138.
एवं कथयतां तेषां प्रभाता रजनी शुभा
शुचिर्भूत्वा यथान्यायं क्षौमवस्त्रविभूषितः
उभौ तच्चरणौ गृह्य पितरौ समभाषत
यद्भवान्पृच्छते तात गुह्यं सौकरवं प्रति
भक्षिताश्च पतंगा मे अजीर्णेनातिपीडितः
दृष्ट्वा मां विह्वलं बाला गृहीत्वा क्रीडितुं गताः
त्वया दृष्टो मया दृष्टो ह्यं चेति कलिः कृतः
न ममेति तवेत्युक्त्वा ह्यादित्यं तीर्थमुत्तमम्
तत्र मुक्ता मया प्राणाः सूर्यतीर्थे महौजसि
जातस्तव सुतो मातस्तदेतद्दिनमुत्तमम् 138.
व्यतीतानि च गुह्यं ते कथनं मम चैव यत्
अहं कर्म करिष्यामि गच्छ तात नमोऽस्तु ते
विष्णुप्रोक्तानि कर्माणि यं यं कारयिता भवान्
वटमाला यथान्यायं कर्मसंसारमोक्षणम्
कृत्वा तु विपुलं कर्म ततः पंचत्वमागताः
विमुक्ताः सर्वसंसाराच्छ्वेतद्वीपमुपागताः
सर्वः श्रिया युतस्तत्र रोगव्याधिविवर्जितः
मोदन्ते तु यथान्यायं प्रसादात्क्षेत्रजान्मम
पुनरन्यत्प्रवक्ष्यामि यद्वृत्तं सौकरे मम
तिर्यग्योनिविनिर्मुक्ताः श्वेतद्वीपमुपागताः 138.
स कुलं तारयेत्तूर्णं दश पूर्वान्दशावरान्
न पठेत्पिशुनानां च एकाकी तु पठेद्गृहे
वैष्णवानां च पुरतो यै व शास्त्रगुणान्विताः
इति श्रीवराहपुराणे खञ्जरीटोपाख्यानं नामाष्टत्रिंशदधिकशततमोऽध्यायः
अथ सौकरमाहात्म्यम् शृणु तत्त्वेन मे देवि लिप्यमानस्य यत्फलम्
गृहीत्वा गोमयं भूमे मम वेश्मोपलेपयेत्