गर्ज्जतां गुञ्जतां चैव धारापातनिपातिताः
नदीनां चैव निर्घोषो मयूराणां च निःस्वनः
वाताः प्रवान्ति ते तत्र शिखीनां च सुखावहाः
गच्छत्येवं स कालो हि मेघदुन्दुभिनादितः 138.
तडागानि प्रसन्नानि कुमुदोत्पलवन्ति च
प्रवान्ति सुसुखा वाताः सुगन्धाश्च सुशीतलाः
एवं शरदि निर्वृत्ते कौमुदे समुपागते
एकादश्यां ततः सुभ्रु स्नातौ क्षौमविभूषितौ
उषितास्त्वत्र षण्मासान्सुखं च द्वादशी भवेत्
पित्रोस्तु वचनं श्रुत्वा स पुत्रो धर्मनिष्ठितः
एवमेतन्महाभाग यत्त्वया परिभाषितम्
एषा वै द्वादशी तात प्रभुनारायणप्रिया
ददतेऽस्यां प्रहृष्टाश्च द्वादश्यां कौमुदे सिते
तेन दानप्रभावेण विष्णुतोषकरेण च 138.
एवं कथयतां तेषां प्रभाता रजनी शुभा
शुचिर्भूत्वा यथान्यायं क्षौमवस्त्रविभूषितः
उभौ तच्चरणौ गृह्य पितरौ समभाषत
यद्भवान्पृच्छते तात गुह्यं सौकरवं प्रति
भक्षिताश्च पतंगा मे अजीर्णेनातिपीडितः
दृष्ट्वा मां विह्वलं बाला गृहीत्वा क्रीडितुं गताः
त्वया दृष्टो मया दृष्टो ह्यं चेति कलिः कृतः
न ममेति तवेत्युक्त्वा ह्यादित्यं तीर्थमुत्तमम्
तत्र मुक्ता मया प्राणाः सूर्यतीर्थे महौजसि
जातस्तव सुतो मातस्तदेतद्दिनमुत्तमम् 138.
व्यतीतानि च गुह्यं ते कथनं मम चैव यत्
अहं कर्म करिष्यामि गच्छ तात नमोऽस्तु ते
विष्णुप्रोक्तानि कर्माणि यं यं कारयिता भवान्
वटमाला यथान्यायं कर्मसंसारमोक्षणम्
कृत्वा तु विपुलं कर्म ततः पंचत्वमागताः
विमुक्ताः सर्वसंसाराच्छ्वेतद्वीपमुपागताः