अथ द्वादश वर्षाणि तव जातस्य पुत्रक
चिन्तयिष्यति भद्रं ते यदा तत्प्राप्नुया वयः
किमिदं चिन्तितं वत्स गमने सौकरं प्रति
अम्बेति भाषसेऽद्यापि कथमेतद्विचिन्तितम् 138.
अपराधो न विद्येत पुत्र क्षेत्रगृहेष्वपि
रुष्टेन वापि भीषायै गृह्यते चैव यष्टिका
इति मातुर्वचः श्रुत्वा स वैश्यकुलनन्दनः
उषितोऽस्मि तदंगेषु गर्भस्थः कुक्षिसंभवः
स्तनौ ह्येतौ मया पीतौ ललितेन विजृम्भितौ
अम्ब त्वं मयि कारुण्यं कुरुष्व खलु चोचितम्
आयान्ति च पुनर्यान्ति गता गच्छन्ति चापरे
कुतो जातः क्व संबद्धः कस्य माता पिताथवा
मातापितृसहस्राणि पुत्रदारशतानि च
एवं चिन्तां समासाद्य मा शुचो जननि क्वचित् 138.
अहो बत महद्गुह्यं किमेतत्तात कथ्यताम्
उवाच मधुरं वाक्यं जननीं पितरं तथा
तत्पृच्छ्यतां भवद्भ्यां हि गुह्यं सौकरवं प्रति
सूर्यतीर्थं समासाद्य यत्तात परिपृच्छसि
गमने कृतसंकल्पौ ततः सौकरवं प्रति
गतः स पद्मपत्राक्ष आभीराणां जनेश्वरः
अग्रे सर्वास्ताः प्रययुर्द्रव्येण च समायुताः
ततः पूर्वार्द्धयामेन माघमासे त्रयोदशी
मुहूर्त्तेन च तेनैव गमनं कुरुते ततः
अथ दीर्घेण कालेन नारायणमुदावहाः 138.
स्नाताः सन्तर्प्य च पितॄन्मम वस्त्रविभूषिताः
तत्र भङ्गुरसो नाम मम कर्मपरायणः
ततः स प्रददौ तस्य विंशा गावो महाधनाः
प्रददौ धनरत्नानि नित्यमेव दिने दिने
एवं तु वसतस्तस्य वर्षाकाल उपागतः
पुष्पितानि कदम्बानि कुटजार्ज्जुनकानि च