एवं स खञ्जरीटो हि गङ्गातोयात्ततस्तदा
वैश्यस्य तु गृहे जातो ह्यनेकक्रतुयाजिनः
विबुद्धश्च पवित्रश्च मद्भक्तश्च वसुन्धरे
कदाचिदुपविष्टौ तौ दृष्ट्वा बालो गुणान्वितः
प्रणम्य शिरसा भूमौ बद्धाञ्जलिरयाचत 138.
न चाहं वारणीयो वै पित्रा मात्रा कथंचन
पुत्रस्य वचनं श्रुत्वा दम्पती तौ मुदान्वितौ
यद्यत्त्वं वक्ष्यसे वत्स यद्यत्ते हृदि वर्त्तते
त्रिंशत्सहस्रं गावो हि सर्वाश्च शुभदोहनाः
पुनरन्यत्प्रवक्ष्यामि आवयोः पुत्र कारणात्
तत्कुरुष्व यथान्यायं मित्रेभ्यो दीयतां धनम्
कन्या वै रमणीयाश्च सजातीयाः कुलोद्भवाः
यदीच्छसि पुनश्चान्यद्यज्ञैर्यष्टुं सुपुत्रक
अष्टौ सम्पूर्णधुर्याणां हलानां तावतां शतम्
यावद्भोजनतृप्तान्वा द्विजानिच्छसि तर्पितुम् 138.
पितृमातृ वचः श्रुत्वा स बालो धर्मसंयुतः
गोप्रदाने न मे कार्यं मित्रं वापि न चिन्तितम्
नाहं वाणिज्यमिच्छामि कृषिगोरक्षमेव च
एकं मे परमं चिन्त्यं यन्ममेच्छा तपोधृतौ
ततः पुत्रवचः श्रुत्वा मम कर्मपरायणौ
अथ द्वादश वर्षाणि तव जातस्य पुत्रक
चिन्तयिष्यति भद्रं ते यदा तत्प्राप्नुया वयः
किमिदं चिन्तितं वत्स गमने सौकरं प्रति
अम्बेति भाषसेऽद्यापि कथमेतद्विचिन्तितम् 138.
अपराधो न विद्येत पुत्र क्षेत्रगृहेष्वपि
रुष्टेन वापि भीषायै गृह्यते चैव यष्टिका
इति मातुर्वचः श्रुत्वा स वैश्यकुलनन्दनः
उषितोऽस्मि तदंगेषु गर्भस्थः कुक्षिसंभवः
स्तनौ ह्येतौ मया पीतौ ललितेन विजृम्भितौ
अम्ब त्वं मयि कारुण्यं कुरुष्व खलु चोचितम्