तत्रैव मरणं प्रापुः सर्वसंगविवर्जिताः 137.
सर्वसङ्गं परित्यज्य मद्भक्तश्चैव जायते 137.
श्वेतद्वीपं ततः प्राप्तौ जानीहि त्वं वसुन्धरे 137.
ततस्तुष्टोऽस्म्यहं भद्रे सूर्यस्य सुमहौजसः
पुण्यं सौकरवे कृत्वा सुदुष्करतरं महत् 137.
इति श्रीवराहपुराणे भगवच्छास्त्रे तीर्थमाहात्म्ये सौकरवे गृध्रजम्बूकाख्याने आदित्यवरप्रदानादिकं नाम सप्तत्रिंशदधिकशततमोऽध्यायः
अथ खंजरीटोपाख्यानम् एतत्पुण्यतमं श्रुत्वा रम्ये सौकरवे तदा
ततः कमलपत्राक्षी सर्वधर्मविदां वरा
पुनः पप्रच्छ तं देवं विस्मयाविष्टमानसा
अकामान्म्रियमाणस्य मानुषत्वमजायत
शृण्वन्त्या मे महज्जातं चित्ते कौतूहलं परम्
नृत्यतः कि भवेत्पुण्यं जाग्रतो वा फलं नु किम्
संमार्जने लेपने वा गन्धपुष्पादिदानतः
अन्येन कर्मणा चैव जपयज्ञादिनाऽथवा
उवाच मधुरं वाक्यं धर्मकामां वसुन्धराम् शृणु सुन्दरि तत्त्वेन यन्मां त्वं परिपृच्छसि ।। 138.
सर्वं ते कथयिष्यामि पुण्यकर्म सुखावहम्
बहून् भुक्त्वा हि वसुधे अजीर्णभृशपीडितः
सम्प्राप्तास्तत्र वै बालाः क्रीडन्तस्तं मृतं खगम्
ममायं वै ममायं वै जिघृक्षन्तः परस्परम
तत एको गृहीत्वैनं गङ्गाम्भसि समाक्षिपत्
एवं स खञ्जरीटो हि गङ्गातोयात्ततस्तदा
वैश्यस्य तु गृहे जातो ह्यनेकक्रतुयाजिनः
विबुद्धश्च पवित्रश्च मद्भक्तश्च वसुन्धरे
कदाचिदुपविष्टौ तौ दृष्ट्वा बालो गुणान्वितः
प्रणम्य शिरसा भूमौ बद्धाञ्जलिरयाचत 138.
न चाहं वारणीयो वै पित्रा मात्रा कथंचन
पुत्रस्य वचनं श्रुत्वा दम्पती तौ मुदान्वितौ
यद्यत्त्वं वक्ष्यसे वत्स यद्यत्ते हृदि वर्त्तते
त्रिंशत्सहस्रं गावो हि सर्वाश्च शुभदोहनाः
पुनरन्यत्प्रवक्ष्यामि आवयोः पुत्र कारणात्