मम स्नेहात्प्रियं चैव तद्भवान्वक्तुमर्हति
उवाच मधुरं वाक्यं पद्मपत्रनिभेक्षणः
सर्वं ते कथयिष्यामि शपे सत्येन सुन्दरि
तस्य मूलं तपो राज्ञि राज्यं सत्ये प्रतिष्ठितम्
न मिथ्या पूर्वमुक्तं मे ब्रूहि किं करवाणि ते 137.
अथवा परमग्र्यं तु पट्टबन्धं करोमि ते
सुप्ता नैव च द्रष्टव्या व्रतमेतन्मुहूर्त्तकम्
कृत्वा निष्कण्टकं राज्यं दत्त्वा पंचत्वमागतः 137.
मनुना वै कृतो धर्म एष नैव न दृश्यते 137.
यत्तदा चिन्तितं पूर्वं द्रष्टुकामेन तां प्रियाम् 137.
अन्यायेन व्रतं चीर्णं सर्वतो विकृतं भवेत् 137.
तत्र गोप्यं किमस्तीति येन ते परिवेदना 137.
प्राश्नासि पिशितान्नं च प्रावारान्भूषणानि च
गच्छस्यनारतं राजन् किं स्थितं च मया विना 137.
प्रत्युवाच प्रियं वाक्यं राजानं धर्मवादिनम् 137.
समं महिष्या चाचम्य क्षणं विश्रम्य पार्थिवः 137.
उवाच मधुरं वाक्यं पुत्रं पुत्रवतां वरः 137.
ततः पितुर्वचः श्रुत्वा राजपुत्रो यशस्विनि 137.
एवं गच्छति काले तु तयोस्तत्र वसुन्धरे 137.
एह्येहि नाथ गच्छावः पश्य गोप्यं मनीषितम् 137.
तत्रैव मरणं प्रापुः सर्वसंगविवर्जिताः 137.
सर्वसङ्गं परित्यज्य मद्भक्तश्चैव जायते 137.
श्वेतद्वीपं ततः प्राप्तौ जानीहि त्वं वसुन्धरे 137.
ततस्तुष्टोऽस्म्यहं भद्रे सूर्यस्य सुमहौजसः
पुण्यं सौकरवे कृत्वा सुदुष्करतरं महत् 137.
इति श्रीवराहपुराणे भगवच्छास्त्रे तीर्थमाहात्म्ये सौकरवे गृध्रजम्बूकाख्याने आदित्यवरप्रदानादिकं नाम सप्तत्रिंशदधिकशततमोऽध्यायः
अथ खंजरीटोपाख्यानम् एतत्पुण्यतमं श्रुत्वा रम्ये सौकरवे तदा
ततः कमलपत्राक्षी सर्वधर्मविदां वरा
पुनः पप्रच्छ तं देवं विस्मयाविष्टमानसा
अकामान्म्रियमाणस्य मानुषत्वमजायत