गतासुर्नष्टसंज्ञो वै बाणभिन्नस्तथा हृदि
तस्य च्छित्वा ततः पक्षौ गृहीत्वा राजनन्दनः
सोऽपि दीर्घेण कालेन अकामोऽपि मृतः खगः
रूपवान् पण्डितश्चैव प्रजानंदकरः सदा
या सा सृगाली सञ्जज्ञे कांचीराजस्य वै सुता 137.
चतुःषष्टिकलायुक्ता कोकिलेव सुखस्वरा
एवं प्रवर्त्तिते तत्र कांचीराज्ये कलिङ्गके
भूमे मम प्रसादेन सम्बधोऽजायत स्वतः
कलिङ्गराजपुत्रेण विधिना तु विवाहिता
भूषणानि च दिव्यानि गजाश्वमहिषीः स्त्रियः
आदाय स्वगृहं यातस्तेन राज्ञातिमानितः
अव्युच्छिन्नाऽभवत्प्रीती रोहिणीचंद्रयोरिव
वने चोपवने चैव ये केचिन्नन्दनोपमाः
नष्टं मन्येत चात्मानं राजपुत्री यशस्विनि
आत्मानं मन्यते प्रीत्या नष्टप्रायं वसुन्धरे 137.
नान्तरं पश्यते कश्चित् पुरुषः पुण्यकर्मणोः
कलिंगस्तोषयामास पौरान्जानपदांस्तथा
ताभ्यां सन्तोषिताः सर्वाः शीलेन स्वगुणैस्तथा
रमते तत्र चान्योन्यं शचीवासवयोरिव
व्यजिज्ञपद्राजसुतं सौहृदेन यशस्विनी
मम स्नेहात्प्रियं चैव तद्भवान्वक्तुमर्हति
उवाच मधुरं वाक्यं पद्मपत्रनिभेक्षणः
सर्वं ते कथयिष्यामि शपे सत्येन सुन्दरि
तस्य मूलं तपो राज्ञि राज्यं सत्ये प्रतिष्ठितम्
न मिथ्या पूर्वमुक्तं मे ब्रूहि किं करवाणि ते 137.
अथवा परमग्र्यं तु पट्टबन्धं करोमि ते
सुप्ता नैव च द्रष्टव्या व्रतमेतन्मुहूर्त्तकम्
कृत्वा निष्कण्टकं राज्यं दत्त्वा पंचत्वमागतः 137.
मनुना वै कृतो धर्म एष नैव न दृश्यते 137.
यत्तदा चिन्तितं पूर्वं द्रष्टुकामेन तां प्रियाम् 137.