तस्मिन्काले ह्यतिक्रान्ते मम कर्मविनिश्चयात्
तत्र राजा महाभागः स्वधर्मकृतनिश्चयः
तस्य पुत्रो महाभागः सर्वधर्मेषु निष्ठितः
पित्रर्थे मृगयां यातो मृगलिप्सुर्वने तदा
न तत्र लभते किञ्चित्पितृकार्ये नराधिपः 137.
अङ्गमध्ये तु विद्धा सा स्फुरन्ती सर्वमङ्गला
पीत्वा सा सलिलं तत्र वृक्षं शाकोटकङ्गता
अकामा मुञ्चती प्राणान् तीर्थं सोमात्मकं प्रति
प्राप्तो गृध्रवटं तीर्थं विश्रामं तत्र चाकरोत्
एकेन स तु बाणेन तया गृध्रो निपातितः
गतासुर्नष्टसंज्ञो वै बाणभिन्नस्तथा हृदि
तस्य च्छित्वा ततः पक्षौ गृहीत्वा राजनन्दनः
सोऽपि दीर्घेण कालेन अकामोऽपि मृतः खगः
रूपवान् पण्डितश्चैव प्रजानंदकरः सदा
या सा सृगाली सञ्जज्ञे कांचीराजस्य वै सुता 137.
चतुःषष्टिकलायुक्ता कोकिलेव सुखस्वरा
एवं प्रवर्त्तिते तत्र कांचीराज्ये कलिङ्गके
भूमे मम प्रसादेन सम्बधोऽजायत स्वतः
कलिङ्गराजपुत्रेण विधिना तु विवाहिता
भूषणानि च दिव्यानि गजाश्वमहिषीः स्त्रियः
आदाय स्वगृहं यातस्तेन राज्ञातिमानितः
अव्युच्छिन्नाऽभवत्प्रीती रोहिणीचंद्रयोरिव
वने चोपवने चैव ये केचिन्नन्दनोपमाः
नष्टं मन्येत चात्मानं राजपुत्री यशस्विनि
आत्मानं मन्यते प्रीत्या नष्टप्रायं वसुन्धरे 137.
नान्तरं पश्यते कश्चित् पुरुषः पुण्यकर्मणोः
कलिंगस्तोषयामास पौरान्जानपदांस्तथा
ताभ्यां सन्तोषिताः सर्वाः शीलेन स्वगुणैस्तथा
रमते तत्र चान्योन्यं शचीवासवयोरिव
व्यजिज्ञपद्राजसुतं सौहृदेन यशस्विनी