इदं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ।। २.
आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।। २.
सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा । अबुद्धिपूर्वकस्तस्य प्रादुर्भूतस्तमोमयः ।। २.
तमो मोहो महामोहस्तामिस्त्रो ह्यन्धसंज्ञितः । अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ।। २.
पञ्चधाऽवस्थितः सर्गो ध्यायतोऽप्रतिबोधवान् । बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः । स मुख्यसर्गो विज्ञेयः सर्गविद्भिर्विचक्षणैः ।। २.
पुनरन्यदभूत् तस्य ध्यायतः सर्गमुत्तमम्। तिर्यक्स्त्रोतस्तु वै यस्मात् तिर्यक्स्त्रोतस्तु वै स्मृतः ।। २.
पश्वादयस्ते विख्याता उत्पथग्राहिणस्तु ते। तमप्यसाधकं मत्वा तिर्यक्स्त्रोतं चतुर्मुखः ।। २.
ऊर्ध्वस्त्रोतस्त्रिधा यस्तु सात्त्विको धर्मवर्त्तनः । ततोर्ध्वचारिणो देवाः सर्वगर्भसमुद्भवाः ।। २.
तदा सृष्ट्वाऽन्यसर्गं तु तदा दध्यौ प्रजापतिः । असाधकांस्तु तान् मत्वा मुख्यसर्गादिसंभवान् ।। २.
ततः स चिन्तयामास अर्वाक्स्त्रोतस्तु स प्रभुः । अर्वाक्स्त्रोतसि चोत्पन्ना मनुष्याः साधका मताः ।। २.
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः । तस्मात् तु दुखः बहुला भूयोभूयश्च कारिणः ।। २.
इत्येते कथिताः सर्गाः षडेते सुभगे तव । प्रथमो महतः सर्गस्तन्मात्राणि द्वितीयकः ।। २.
वैकारिकस्तृतीयस्तु सर्गश्चैन्द्रियकः स्मृतः । इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः ।। २.
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः । तिर्यक्स्त्रोतश्च यः प्रोक्तस्तैर्यक्स्त्रोतः स उच्यते ।। २.
तथोर्ध्वस्त्रोतसां श्रेष्ठः सप्तमः स तु मानवः । अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः ।। २.
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः । प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ।। २.
इत्येते वै समाख्याता नव सर्गाः प्रजापतेः । प्राकृता वैकृताश्चैव जगतो मूलहेतवः । इत्येते कथिताः सर्गाः किमन्यच्छ्रोतुमिच्छसि ।। २.
धरण्युवाच । नवधा सृष्टिरुत्पन्ना ब्रह्मणोऽव्यक्तजन्मनः । कथं सा ववृधे देव एतन्मे कथयाच्युत ।। २.
श्रीवराह उवाच । प्रथमं ब्रह्मणा सृष्टा रुद्राद्यास्तु तपोधनाः। सनकादयस्ततः सृष्टा मरीच्यादय एव च ।। २.
मरीचिरत्रिश्च तथा अङ्गिराः पुलहः क्रतुः । पुलस्त्यश्च महातेजाः प्रचेता भृगुरेव च । नारदो दशमश्चैव वसिष्ठश्च महातपाः ।। २.
सनकादयो निवृत्त्याख्ये तेन धर्मे प्रयोजिताः । प्रवृत्त्याख्ये मरीच्याद्या मुक्त्वैकं नारदं मुनिम् ।। २.
योऽसौ प्रजापतिस्त्वाद्यो दक्षिणाङ्गुष्ठसंभवः । तस्यादौ तत्र वंशेन जगदेतच्चराचरम् ।। २.
देवाश्च दानवाश्चैव गन्धर्वोरगपक्षिणः । सर्वे दक्षस्य कन्यासु जाताः परमधार्मिकाः ।। २.
योऽसौ रुद्रेति विख्यातः पुत्रः क्रोधसमुद्भवः । भ्रुकुटीकुटिलात् तस्य ललाटात् परमेष्ठिनः ।। २.
अर्द्धनारीनरवपुः प्रचण्डोऽतिभयंकरः । विभजात्मानमित्युक्तो ब्रह्मणाऽन्तर्दधे पुनः ।। २.
तथोक्तोऽसौ द्विधा स्त्रीत्वं पुरुषत्वं चकार सः । बिभेद पुरुषत्वं च दशधा चैकधा च सः । ततस्त्वेकादश ख्याता रुद्रा ब्रह्मसमुद्भवाः ।। २.
अयमुद्देशतः प्रोक्तो रुद्रसर्गो मयाऽनघे । इदानीं युगमाहात्म्यं कथयामि समासतः ।। २.
कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् । एतस्मिन् ये महासत्त्वा राजानो भूरिदक्षिणाः । देवासुराश्च यं चक्रुर्धर्मं कर्म च तच्छृणु ।। २.
आसीत् प्रथमकल्पे तु मनुः स्वायंभुवः पुरा । तस्य पुत्रद्वयं जज्ञे अतिमानुषचेष्टितम्। प्रियव्रतोत्तानपादनामानं धर्मवत्सलम् ।। २.
तत्र प्रियव्रतो राजा महायज्वा तपोबलः । स चेष्ट्वा विविधैर्यज्ञैर्विपुलैर्भूरिदक्षिणैः ।। २.