अष्टमेन तु भक्तेन मम कर्मविधौ स्थितः
यत्र तप्तं तपस्तेन सोमेन सुमहात्मना
पञ्चवर्षसहस्राणि तथैवोर्द्ध्वमुखः स्थितः
ममापराधान्मुक्तश्च ब्राह्मणानां पतिस्तथा
त्रिंशद्वर्षसहस्राणि त्रिंशद्वर्षशतानि च
द्रव्यवान्गुणवांश्चैव संविभागी यशस्विनि १३७.
स एष ब्राह्मणो भूत्वा संसाराद्विप्रमुच्यते
तत्तीर्थं येन विज्ञेयं मम मार्गानुसारिणा
प्रवृत्ते चान्धकारे तु यत्र कश्चिन्न दृश्यते
आलोकश्चैव दृश्येत सोमस्तत्र न दृश्यते ।। एवं त्वां वच्मि हे भद्रे एष ३ विस्मयः परः
एतच्चिह्नं महाभागे पुण्ये सौकरवे मम
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
अकामा तु मृता तीर्थे आत्मनः कर्मनिश्चयात्
राजपुत्री विशालाक्षी श्यामा सर्वाङ्गसुन्दरी
वाक्यं नारायणाच्छ्रुत्वा धरणी शुभलक्षणा 137.
अहो तीर्थप्रभावो वै त्वया प्रोक्तो महान्मम गृध्रश्चैव सृगाली च प्राप्तौ वै मानुषीं तनुम्
स्नानेन तत्र तीर्थे च मरणाद्वा जनार्दन
चिह्नं च कीदृशं तेषां जायन्ते येन ते तथा
ततो महीवचः श्रुत्वा विष्णुर्धर्मविदां वरः
शृणु तत्त्वेन मे भूमे यन्मां त्वं परिपृच्छसि
तस्मिन्काले ह्यतिक्रान्ते मम कर्मविनिश्चयात्
तत्र राजा महाभागः स्वधर्मकृतनिश्चयः
तस्य पुत्रो महाभागः सर्वधर्मेषु निष्ठितः
पित्रर्थे मृगयां यातो मृगलिप्सुर्वने तदा
न तत्र लभते किञ्चित्पितृकार्ये नराधिपः 137.
अङ्गमध्ये तु विद्धा सा स्फुरन्ती सर्वमङ्गला
पीत्वा सा सलिलं तत्र वृक्षं शाकोटकङ्गता
अकामा मुञ्चती प्राणान् तीर्थं सोमात्मकं प्रति
प्राप्तो गृध्रवटं तीर्थं विश्रामं तत्र चाकरोत्
एकेन स तु बाणेन तया गृध्रो निपातितः