चक्रतीर्थे विशालाक्षि मरणे कृतकृत्यतः
शिरस्यञ्जलिमाधाय श्लक्ष्णमेतदुवाच ह
एतदाचक्ष्व तत्त्वेन परं कौतूहलं हि मे
उवाच वाक्यं मेदिन्याः मेषदुन्दुभिनिःस्वनः
तस्य वै कारणं येन तेन चाराधितोस्म्यहम्
दर्शितश्च मया ह्यात्मा यो हि देवेषु दुर्लभः १३७.
मां स द्रष्टुं न शक्नोति मम तेजःप्रमोहितः
न शक्नोति तथा वक्तुं भीरुः सन्त्रस्तलोचनः
वाणीं सूक्ष्मां समादाय स सोमो चोदितो मया
ब्रूहि तत्वेन मे सोम यत्ते मनति वर्त्तते
मम वाक्यं ततः श्रुत्वा ग्रहाणां प्रवरेश्वरः
भगवन् यदि तुष्टोऽसि मम चात्र गतः प्रभो
यावल्लोका धरिष्यन्ति तावत्त्वयि जनार्दन
यच्चापि मम तद्रूपं त्वया संस्थापितं प्रभो
सोम इत्येव यज्ञेषु पिबन्तु मम ब्राह्मणाः
क्षीणस्तत्र त्वमावस्यां तत्र पिण्डपितृक्रियाः १३७.
अधर्मे च न मे बुद्धिर्भवेद्विष्णो कदाचन। पतित्वं चाथ गच्छेयमोषधीनां तथा कुरु
यदि तुष्टो महादेव आदिमध्यान्त वर्जितः
ततः सोमवचः श्रुत्वा तत्रैवान्तर्हितोऽभवम्
प्राप्ता च परमा सिद्धिः सोमतीर्थेऽन्यदुर्ल्लभा
अष्टमेन तु भक्तेन मम कर्मविधौ स्थितः
यत्र तप्तं तपस्तेन सोमेन सुमहात्मना
पञ्चवर्षसहस्राणि तथैवोर्द्ध्वमुखः स्थितः
ममापराधान्मुक्तश्च ब्राह्मणानां पतिस्तथा
त्रिंशद्वर्षसहस्राणि त्रिंशद्वर्षशतानि च
द्रव्यवान्गुणवांश्चैव संविभागी यशस्विनि १३७.
स एष ब्राह्मणो भूत्वा संसाराद्विप्रमुच्यते
तत्तीर्थं येन विज्ञेयं मम मार्गानुसारिणा
प्रवृत्ते चान्धकारे तु यत्र कश्चिन्न दृश्यते
आलोकश्चैव दृश्येत सोमस्तत्र न दृश्यते ।। एवं त्वां वच्मि हे भद्रे एष ३ विस्मयः परः