धनधान्यसमृद्धेषु रूपवान्गुणवान् शुचिः
एवं वै मानुषो भूत्वा अपराधविवर्जितः
ये मृतास्तस्य क्षेत्रस्य सौकरस्य प्रभावतः
त्यक्त्वा कलेवरं तूर्णं श्वतेद्द्वीपं प्रयान्ति ते
तीर्थेषु तेषु स्नातश्च यां प्राप्नोति परां गतिम्
शृणु पुण्यं तत्र भद्रे प्राप्नोति परमं नरः १३७.
वैशाख द्वादशीं प्राप्य स्नायाद्यो विधिपूर्वकम्
धनधान्यसमृद्धो हि जायते विपुले कुले
अपराधं वर्जयति दीक्षितश्चैव जायते
तीर्त्वा चक्र गदाशंखपद्मपाणिश्चतुर्भुजः
चक्रतीर्थे विशालाक्षि मरणे कृतकृत्यतः
शिरस्यञ्जलिमाधाय श्लक्ष्णमेतदुवाच ह
एतदाचक्ष्व तत्त्वेन परं कौतूहलं हि मे
उवाच वाक्यं मेदिन्याः मेषदुन्दुभिनिःस्वनः
तस्य वै कारणं येन तेन चाराधितोस्म्यहम्
दर्शितश्च मया ह्यात्मा यो हि देवेषु दुर्लभः १३७.
मां स द्रष्टुं न शक्नोति मम तेजःप्रमोहितः
न शक्नोति तथा वक्तुं भीरुः सन्त्रस्तलोचनः
वाणीं सूक्ष्मां समादाय स सोमो चोदितो मया
ब्रूहि तत्वेन मे सोम यत्ते मनति वर्त्तते
मम वाक्यं ततः श्रुत्वा ग्रहाणां प्रवरेश्वरः
भगवन् यदि तुष्टोऽसि मम चात्र गतः प्रभो
यावल्लोका धरिष्यन्ति तावत्त्वयि जनार्दन
यच्चापि मम तद्रूपं त्वया संस्थापितं प्रभो
सोम इत्येव यज्ञेषु पिबन्तु मम ब्राह्मणाः
क्षीणस्तत्र त्वमावस्यां तत्र पिण्डपितृक्रियाः १३७.
अधर्मे च न मे बुद्धिर्भवेद्विष्णो कदाचन। पतित्वं चाथ गच्छेयमोषधीनां तथा कुरु
यदि तुष्टो महादेव आदिमध्यान्त वर्जितः
ततः सोमवचः श्रुत्वा तत्रैवान्तर्हितोऽभवम्
प्राप्ता च परमा सिद्धिः सोमतीर्थेऽन्यदुर्ल्लभा