य एतत्पठते नित्यं कल्यमुत्थाय मानवः
आरोग्याणां महारोग्यं मङ्गलानां तु मङ्गलम्
यस्तु भागवतो नित्यं पठते च दृढव्रतः
एष जप्यः प्रमाणं च सन्ध्योपासनमेव च
न पठेन्मूर्खमध्ये तु कुशिष्याणां तथैव च
एतत्ते कथितो देवि आचारस्य विनिश्चयः
इति श्रीवराहपुराणे भगवच्छास्त्रे प्रायश्चित्तकर्मसूत्रं नाम षट्त्रिंशदधिकशततमोऽध्यायः
अथ गृध्रजम्बुकाख्यानम् । तत्रादित्यवरप्रदानम् श्रुत्वा तु विपुलं ह्येतदपराधविशोधनम्
अहो कर्म महाश्रेष्ठं भगवंस्तव भाषितम्
श्रुतं ह्येव महाबाहो सर्वधर्मार्थ साधकम्
किमुच्यते व्रतं चैव शुभं कुब्जाम्रकं महत्
श्रीवराह उवाच मम क्षेत्रं परं चैव शुद्धं भागवतप्रियम्
परं कोकामुखं स्थानं तथा कुब्जा म्रकं परम्
यत्र संस्था च मे देवि ह्युद्धृतासि रसातलात्
धरोवाच किं वा पुण्यं भवेत्तत्र स्नातस्य पिबतस्तथा
श्रीवराह उवाच यां गतिं ते प्रपद्यन्ते नराः सौकरवे मृताः।।१३७.
यत्र स्नातस्य यत्पुण्यं गतस्य च मृतस्य च
शृणु पुण्यं महाभागे मम क्षेत्रेषु सुन्दरि
दश पूर्वापराश्चापि अपरे सप्त पंच च
गमनादेव सुश्रोणि मुखस्य मम दर्शनात्
धनधान्यसमृद्धेषु रूपवान्गुणवान् शुचिः
एवं वै मानुषो भूत्वा अपराधविवर्जितः
ये मृतास्तस्य क्षेत्रस्य सौकरस्य प्रभावतः
त्यक्त्वा कलेवरं तूर्णं श्वतेद्द्वीपं प्रयान्ति ते
तीर्थेषु तेषु स्नातश्च यां प्राप्नोति परां गतिम्
शृणु पुण्यं तत्र भद्रे प्राप्नोति परमं नरः १३७.
वैशाख द्वादशीं प्राप्य स्नायाद्यो विधिपूर्वकम्
धनधान्यसमृद्धो हि जायते विपुले कुले
अपराधं वर्जयति दीक्षितश्चैव जायते
तीर्त्वा चक्र गदाशंखपद्मपाणिश्चतुर्भुजः