पितरस्तस्य नाश्नन्ति वर्षाणि दश पंच च
न तस्य धर्मो विद्येत एवमेतन्न संशयः
प्रायश्चित्तं महाभागे मम भक्तसुखावहम्
आकाशशयनं कृत्वा चतुर्थेऽहनि शुध्यति
पंचगव्यं ततः पीत्वा शीघ्रं मुच्येत किल्बिषात्
सर्वसङ्गं परित्यज्य मम लोकं स गच्छति
कुणपो जायते भूमे यातुधानो न संशयः
तिष्ठत्यत्र महाभागे एवमेतन्न संशयः
प्रायश्चित्तं प्रवक्ष्यामि येन मुच्येत किल्बिषात् 136.
उपोष्य चाष्टभक्तं तु दशैकादशमेव च
पंचगव्यं ततः पीत्वा शीघ्रं मुच्यति किल्बिषात्
तानि तानि तरन्त्येव सर्व एव पितामहाः
चर्मकारस्तु जायेत वर्षाणां तु त्रयोदश
सूकरत्वात्परिभ्रष्टः श्वा भवेच्च जुगुप्सितः
मद्भक्तश्च विनीतश्च अपराधविवर्जितः
य एतेन विधानेन वसुधे कर्म कारयेत्
भेरीशब्दमकृत्वा तु यस्तु मां प्रतिबोधयेत्
तस्य वक्ष्यामि सुश्रोणि प्रायश्चित्तं मम प्रियम्
यस्य कस्यचिन्मासस्य शुक्लपक्षे तु द्वादशी 136.
य एतेन विधानेन वसुधे कर्म कारयेत्
अन्नं भुक्त्वा बहुतरमजीर्णेन परिप्लुतः
एकजन्मनि श्वा चैव वानरश्चैव जायते
एकजन्म भवेदन्धो मूषको जायते पुनः
शुद्धो भागवतः श्रेष्ठस्त्वपराधविवर्ज्जित
किल्बिषाद्येन मुच्येत मम भक्तिपरायणः
पायसेन दिनत्रय्यां त्रिदिनं सक्तुना तथा
उत्थायापररात्रे तु कृत्वा वै दन्तधावनम्
य एतेन विधानेन प्रायश्चित्तं समाचरेत्
आख्यानानां महाख्यानं तपसां च परं तपः 136.
एष धर्मश्च कीर्त्तिश्च आचाराणां महौजसाम्