त्वं भूस्त्वं च भुवो देव त्वं जनस्त्वं महः स्मृतः । त्वं तपस्त्वं च सत्यं च त्वयि देव चराचरम् ।। ११.
त्वत्तो भूतमिदं विश्वं त्वदुद्भूता ऋगादयः । त्वत्तः शास्त्राणि जातानि त्वत्तो यज्ञाः प्रतिष्ठिताः ।। ११.
त्वत्तो वृक्षा वीरुधश्च त्वत्तः सर्वा वनौषधीः । पशवः पक्षिणः सर्पास्त्वत्त एव जनार्दन ।। ११.
ममापि देवदेवेश राजा दुर्जयसंज्ञितः । आगतोऽभ्यागतस्तस्य आतिथ्यं कर्त्तुमुत्सहे ।। ११.
तस्य मे निर्धनस्याद्य देवदेव जगत्पते । भक्तिनम्रस्य देवेश कुरुष्वान्नाद्यसंचयम् ।। ११.
यं यं स्पृशामि हस्तेन यं यं पश्यामि चक्षुषा । वृक्षं वा तृणकन्दं वा तत्तदन्नं चतुर्विधम् ।। ११.
तथा त्वन्यतमं वाऽपि यद् ध्यातं मनसा मया । तत् सर्वं सिद्ध्यतां मह्यं नमस्ते परमेश्वर ।। ११.
इति स्तुत्या तु देवेशस्तुतोष जगतां पतिः । मुनेस्तस्य स्वकं रूपं दर्शयामास केशवः ।। ११.
उवाच सुप्रसन्नात्मा ब्रूहि विप्र वरं परम् । एवं श्रुत्वाऽक्षिणी यावदुन्मीलयति वै मुनिः ।। ११.
तदा शङ्खगदापाणिः पीतवासा जनार्दनः । गरुडस्थोऽपि तेजस्वी द्वादशादित्यसप्रभः ।। ११.
दिवि सूर्यसहस्त्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ।। ११.
तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा । ददर्श स मुनिर्देवि विस्मयोत्फुल्ललोचनः ।। ११.
जगाम शिरसा देवं कृताञ्जलिरथाब्रवीत् । यदि मे वरदो देवो भूयाद् भक्तस्य केशव ।। ११.
इदानीमेष नृपतिर्यथा सबलवाहनः । ममाश्रमे कृताहारः श्वः प्रयाता स्वकं गृहम् ।। ११.
इत्युक्तस्तस्य देवेशो वरदः संबभूव ह । चित्तसिद्धिं ददौ तस्मै मणिं च सुमहाप्रभम् ।। ११.
तं दत्त्वाऽन्तर्दधे देवः स च गौरमुखो मुनिः । जगाम चाश्रमं पुण्यं नाना ऋषिनिषेवितम् ।। ११.
तत्र गत्वा स विप्रेन्द्रश्चिन्तयमास वै मुनिः । हिमवच्छिखराकारं महाभ्रमिव चोन्नतम् । शशाङ्करश्मिसङ्काशं गृहं वै शतभूमिकम् ।। ११.
तादृशानां सहस्त्राणि लक्षकोट्यश्च सर्वशः । गृहाणि निर्ममे विप्रो विष्णोर्लब्धवरस्तदा ।। ११.
प्राकाराणि ततोपान्ते तल्लग्नोद्यानकानि च । कोकिलाकुलघुष्टानि नानाद्विजवराणि च । चम्पकाशोकपुन्नागनागकेशरवन्ति च ।। ११.
नानाजात्यस्तथा वृक्षा गृहोद्यानेषु सर्वशः । हस्तिनां हस्तिशालाश्च तुरगाणां च मन्दुराः ।। ११.
चकार संचयान् विप्रो नानाभक्ष्याणि सर्वशः । भक्ष्यं भोज्यं तथा लेह्यं चोष्यं बहुविधं तथा । चकारान्नाद्यनिचयं हेमपात्र्यश्च सर्वतः ।। ११.
एवं कृत्वा स विप्रस्तु राजानं भूरितेजसम् । उवाच सर्वसैन्यानि प्रविशन्तु गृहानिति ।। ११.
एवमुक्तस्ततो राजा तद्गृहं पर्वतोपमम् । प्रविवेशान्तरेष्वन्ये भृत्या विविशुराशु वै ।। ११.
ततस्तेषु प्रविष्टेषु तदा गौरमुखो मुनिः । प्रगृह्य तं मणिं दिव्यं राजानं चेदमब्रवीत् ।। ११.
मज्जनाभ्यवहारार्थं पथि श्रमकृते तथा । विलासिनीस्तथा दासान् प्रेषयिष्यामि ते नृप ।। ११.
एवमुक्त्वा स विप्रेन्द्रस्तं मणिं वैष्णवं शुभम् । एकान्ते स्थापयामास राज्ञस्तस्य प्रपश्चतः ।। ११.
तस्मिन् स्थापितमात्रे तु मणौ शुद्धसमप्रभे । निश्चेरुर्योषितस्तत्र दिव्यरूपाः सहस्त्रशः ।। ११.
सुकुमाराङ्गरागाद्याः सुकुमारवराङगनाः । सुकपोलाः सुचार्व्यङ्ग्यः सुकेशान्ताः सुलोचनाः । काश्चित्सौवर्णपात्रीश्च गृहीत्वा संप्रतस्थिरे ।। ११.
एवं योषिद्गणास्तत्र नराः कर्मकरास्तथा । निर्जग्मुस्तस्य नृपतेः सर्वे भृत्या नृपस्य ह । केवलं भोजनं पूर्वं परिधानं च सर्वशः ।। ११.
ताः स्त्रियः सर्वभृत्यानां राजमार्गेण मज्जनम् । ददुस्ते च नराश्वानां हस्तिनां च त्वरान्विताः ।। ११.