ततो भवेत्सुपूतात्मा मद्भक्तः स न संशयः
दीक्षितः पिबते मद्यं प्रायश्चित्तं न विद्यते
अग्निवर्णां सुरां पीत्वा तेन मुच्येत किल्बिषात्
न स लिप्यति पापेन संसारं च न गच्छति
नरके पच्यते घोरे दश पंच च सूकरः
वर्षमेकं ततः शुध्येन्मत्कर्मणि रतः शुचिः
ततो भूमिर्वचः श्रुत्वा प्रत्युवाच पुनर्हरिम्
कथं मुच्येत देवेश प्रायश्चित्तं वद प्रभो यो मे कुसुम्भशाकेन प्रापणं कुरुते नरः
दशवर्षसहस्राणि नरके परिपच्यते 136.
भक्षणे तु कृते कुर्याच्चान्द्रायणमतन्द्रितः
य एतेन विधानेन प्रायश्चित्तं समाचरेत्
यः पारक्येण वस्त्रेण न धूतेन च माधवि
करोति मम कर्माणि स्पृशते मां तदा स्थितः
हीनपादेन जायेत चैकं जन्म वसुन्धरे
तस्य वक्ष्यामि सुश्रोणि प्रायश्चित्तं महौजसम्
अष्टभक्तं ततः कृत्वा मम भक्तिपरायणः
तिष्ठेज्जलाशये गत्वा शान्तो दान्तो यतव्रतः
प्रभातायां तु शर्वर्यामुदिते तु दिवाकरे
य एतेन विधानेन प्रायश्चित्तं समाचरेत् 136.
( अकृत्वा यो नवान्नानि मम कर्मपरायणः
पितरस्तस्य नाश्नन्ति वर्षाणि दश पंच च
न तस्य धर्मो विद्येत एवमेतन्न संशयः
प्रायश्चित्तं महाभागे मम भक्तसुखावहम्
आकाशशयनं कृत्वा चतुर्थेऽहनि शुध्यति
पंचगव्यं ततः पीत्वा शीघ्रं मुच्येत किल्बिषात्
सर्वसङ्गं परित्यज्य मम लोकं स गच्छति
कुणपो जायते भूमे यातुधानो न संशयः
तिष्ठत्यत्र महाभागे एवमेतन्न संशयः
प्रायश्चित्तं प्रवक्ष्यामि येन मुच्येत किल्बिषात् 136.
उपोष्य चाष्टभक्तं तु दशैकादशमेव च