तत्पापशोधनार्थाय मया वाक्यं प्रभाषितम्
स्वयं तिष्ठन्ति वै तत्र मनुजा विगतस्पृहः
तत्र वर्षसहस्राणि दिव्यान्येव दृढव्रतः
हतानां चैव मांसानि ये च भोज्यास्तव प्रियाः
पूर्णे वर्षसहस्रे तु स्थित्वा त्वं समले पुनः
तत्र ज्ञास्यसि चात्मानं गौतमाश्रमसंस्थितः
सततं पापसम्पन्नं कपालं शिरसि स्थितम्
एवं रुद्रं वरं दत्त्वा तत्रैवान्तर्हितोऽभवम्
अतो न रोचते भूमे श्मशानं मे कदाचन 136.
एतत्ते कथितं भद्रे श्मशानं मे जुगुप्सितम्
प्रायश्चित्तं प्रवक्ष्यामि येन शुध्यति किल्बिषात्
आकाशशयनं कुर्यादेकवस्त्रः कुशासने
विमुक्तः सर्वपापेभ्यो मम लोकं स गच्छति
तस्य वै शृणु सुश्रोणि प्रायश्चित्तं सुशोधनम्
जायते मानवस्तत्र मम कर्मपरायणः
तस्य वक्ष्यामि सुश्रोणि प्रायश्चित्तं महौजसम्
यावकेन दिनैकं तु गोमूत्रेण च कारयेत्
न स गच्छति संसारं मम लोकं स गच्छति
मूर्खः स पापकर्मा च मम कर्मपरायणः 136.
यावद्रोम वराहस्य मम गात्रेषु संस्थितम्
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
यावत् तत्तनुसंस्थं तु भजते तु प्रतिष्ठितम्
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
अन्धो भूत्वा ततो देवि जन्म चैवं प्रतिष्ठितम्
जायते विपुले सिद्धे कुले भागवते शुचिः
द्रव्यवान्गुणवांश्चैव रूपवाञ्छीलवाञ्छुचिः
किल्बिषाद्येन मुच्येत मम कर्मपरायणः
दिनानि सप्त तिष्ठेत सप्त वै पायसेन च
प्रायश्चित्तान्महाभागे मम लोकं स गच्छति 136.
तत्र दोषं प्रवक्ष्यामि शृणु सुन्दरि तत्त्वतः