अहं त्वां तु विजानामि मां त्वं जानासि माधव
ब्रह्माणं तु विजानाति नावयोरन्तरेण हि
एवं मह्यं हरो वाक्यमुक्त्वा भूतमहेश्वरः
तव विष्णो प्रसादेन मया तत्त्रिपुरं हतम्
बालवृद्धा हतास्तत्र विस्फुरन्तो दिशो दश
प्रणष्टयोगमायश्च नष्टैश्वर्यश्च माधव
विष्णो तत्त्वेन मे ब्रूहि शोधनं पाप नाशनम्
एवं चिन्तात्मनस्तस्य मया रुद्रस्य भाषितम्
ममैवं वचनं श्रुत्वा भगवान्परमेश्वरः 136.
कीदृशः समलो विष्णो यत्र गच्छामहे वयम्
तत्पापशोधनार्थाय मया वाक्यं प्रभाषितम्
स्वयं तिष्ठन्ति वै तत्र मनुजा विगतस्पृहः
तत्र वर्षसहस्राणि दिव्यान्येव दृढव्रतः
हतानां चैव मांसानि ये च भोज्यास्तव प्रियाः
पूर्णे वर्षसहस्रे तु स्थित्वा त्वं समले पुनः
तत्र ज्ञास्यसि चात्मानं गौतमाश्रमसंस्थितः
सततं पापसम्पन्नं कपालं शिरसि स्थितम्
एवं रुद्रं वरं दत्त्वा तत्रैवान्तर्हितोऽभवम्
अतो न रोचते भूमे श्मशानं मे कदाचन 136.
एतत्ते कथितं भद्रे श्मशानं मे जुगुप्सितम्
प्रायश्चित्तं प्रवक्ष्यामि येन शुध्यति किल्बिषात्
आकाशशयनं कुर्यादेकवस्त्रः कुशासने
विमुक्तः सर्वपापेभ्यो मम लोकं स गच्छति
तस्य वै शृणु सुश्रोणि प्रायश्चित्तं सुशोधनम्
जायते मानवस्तत्र मम कर्मपरायणः
तस्य वक्ष्यामि सुश्रोणि प्रायश्चित्तं महौजसम्
यावकेन दिनैकं तु गोमूत्रेण च कारयेत्
न स गच्छति संसारं मम लोकं स गच्छति
मूर्खः स पापकर्मा च मम कर्मपरायणः 136.
यावद्रोम वराहस्य मम गात्रेषु संस्थितम्