ततो नारायणाच्छ्रुत्वा धरणी वाक्यमब्रवीत्
परं कौतूहलं देव निखिलं वक्तुमर्हसि
किन्त्वत्र त्रिगुणं देव पवित्रे शिवभाषिते
कपालं गृह्य देवोऽत्र दीप्तिमन्तं महौजसम्
श्मशानं पद्मपत्राक्ष रुद्रस्य च निशि प्रियम् शृणु तत्त्वेन मे देवि इदमाख्यानमुत्तमम्
अद्यापि ते न जानन्ति ह्यनघे संशितव्रताः
हत्वा च बालान्वृद्धांश्च त्रिपुरे रूपिणीः स्त्रियः
प्रणष्टमानसैश्वर्यो नष्टा माया च योगिनः
तत्र स्थाने शिवो भूमे गणैः सर्वैः समावृतः 136.
ततो ध्यातो मया देवि शङ्करः पुनरेष्यति
नष्टं मायाबलं रुद्रं सर्वभूतमहेश्वरम्
नष्टसंज्ञो हतज्ञानो नष्टयोगबलोऽबलः
किमिदं तिष्ठसे रुद्र कश्मलेन समावृतः
त्वं वैशाख्यं वियोगं च त्वं योनिस्त्वं परायणम्
किं न बुध्यति चात्मानं गणैः परिवृतो भवान्
तन्ममाचक्ष्व तत्त्वेन यत्पृष्टोसि मया भवान्
तव चैव प्रियार्थाय येनाहमिह चागतः
उवाच मधुरं वाक्यं पापसन्तप्तलोचनः
देवं नारायणं चैकं सर्वलोकमहेश्वरम् 136.
लब्धो योगश्च साङ्ख्यं च जातोऽस्मि विगतज्वरः
अहं त्वां तु विजानामि मां त्वं जानासि माधव
ब्रह्माणं तु विजानाति नावयोरन्तरेण हि
एवं मह्यं हरो वाक्यमुक्त्वा भूतमहेश्वरः
तव विष्णो प्रसादेन मया तत्त्रिपुरं हतम्
बालवृद्धा हतास्तत्र विस्फुरन्तो दिशो दश
प्रणष्टयोगमायश्च नष्टैश्वर्यश्च माधव
विष्णो तत्त्वेन मे ब्रूहि शोधनं पाप नाशनम्
एवं चिन्तात्मनस्तस्य मया रुद्रस्य भाषितम्
ममैवं वचनं श्रुत्वा भगवान्परमेश्वरः 136.
कीदृशः समलो विष्णो यत्र गच्छामहे वयम्