वराहो दश वर्षाणि कृत्वानुचरते वने
ततश्च मूषको भूत्वा वर्षाणि च चतुर्दश
सल्लकी चाष्टवर्षाणि जायते भवने बहु
एवं संसारितां गत्वा वराहामिषभक्षकः
हृषीकेशवचः श्रुत्वा सर्वं सम्पूर्णलक्षणम्
एतन्मे परमं गुह्यं तव भक्तसुखावहम्
तरन्ति मानुषा येन तिर्यक्संसारसागरात्
पानीयं तु ततो भुक्ता तिष्ठेत्सप्तदिनं ततः
तिलभक्षो दिनान्सप्त पाषाणस्य च भक्षकः 135.
क्षान्तं दान्तं तथा कृत्वा अहङ्कारविवर्ज्जितः
विमुक्तः सर्वपापेभ्यः ससंज्ञो विगतज्वरः
जालपादं भक्षयित्वा यस्तु मामुपसर्पति
कुम्भीरो दश वर्षाणि पञ्च वर्षाणि सूकरः
कृत्वा तु दुष्करं कर्म जायते विपुले कुले
सर्वकर्माण्यतिक्रम्य मम लोकं स गच्छति
तरन्ति मनुजा येन घोरसंसारसागरात्
फलभक्षो दिनत्रय्यां तिलभक्षो दिनत्रयम्
दशपञ्च दिनान्येवं प्रायश्चित्तं समाचरेत् विनीतात्मा शुचिर्भूत्वा य इच्छेत्सुशुभां गतिम्
इति श्रीवराहपुराणे जालपादभक्षणापराधप्रायश्चित्तं नाम पञ्चत्रिंशदधिकशततमोऽध्यायः
अथ प्रायश्चित्तकर्मसूत्रम् दीपं स्पृष्ट्वा तु यो देवि मम कर्माणि कारयेत्
तच्छृणुष्व महाभागे कथ्यमानं मयाऽनघे
चाण्डालस्य गृहे तत्र एवमेतन्न संशयः
मद्भक्तश्चैव जायेत शुद्धे भागवते गृहे
तरन्ति मनुजा येन कष्टं चाण्डालयोनिषु
चतुर्थभक्तमाहारमाकाशशयने स्वपेत्
शुचिर्भूत्वा यथान्यायं मम कर्मपथे स्थितः
संसारशोधनं चैव यत्कृत्वा लभते शुभम्
मम दोषापराधस्य शृणु तत्त्वेन यत्फलम्
गृध्रस्तु सप्त वर्षाणि जायते खचरेश्वरः 136.
पिशाचो जायते तत्र वर्षाणि नव पंच च