पर्णभक्षस्त्रीण्यहानि पयोभक्षो दिनत्रयम्
एवं कृत्वा महाभागे वाससोच्छिष्टकारिणः
श्वानोच्छिष्टं तु यो दद्यान्मम कर्मपरायणः
श्वानो वै सप्त जन्मानि गोमायुः सप्त वै तथा
विशुद्धात्मा श्रुतिज्ञश्च मद्भक्तश्चैव जायते
शृणु तत्त्वेन वसुधे प्रायश्चित्तं महौजसम्
मूलभक्षो दिनत्रय्यां फलाहारो दिनत्रयम्
दध्याहारो दिनत्रय्यां पायसेन दिनत्रयम्
एवं दिनान्येकविंशत्कृत्वा वै शुभलक्षणम् 135.
भुक्त्वा वराहमांसं तु यश्च मामिह सर्पति
वराहो दश वर्षाणि कृत्वानुचरते वने
ततश्च मूषको भूत्वा वर्षाणि च चतुर्दश
सल्लकी चाष्टवर्षाणि जायते भवने बहु
एवं संसारितां गत्वा वराहामिषभक्षकः
हृषीकेशवचः श्रुत्वा सर्वं सम्पूर्णलक्षणम्
एतन्मे परमं गुह्यं तव भक्तसुखावहम्
तरन्ति मानुषा येन तिर्यक्संसारसागरात्
पानीयं तु ततो भुक्ता तिष्ठेत्सप्तदिनं ततः
तिलभक्षो दिनान्सप्त पाषाणस्य च भक्षकः 135.
क्षान्तं दान्तं तथा कृत्वा अहङ्कारविवर्ज्जितः
विमुक्तः सर्वपापेभ्यः ससंज्ञो विगतज्वरः
जालपादं भक्षयित्वा यस्तु मामुपसर्पति
कुम्भीरो दश वर्षाणि पञ्च वर्षाणि सूकरः
कृत्वा तु दुष्करं कर्म जायते विपुले कुले
सर्वकर्माण्यतिक्रम्य मम लोकं स गच्छति
तरन्ति मनुजा येन घोरसंसारसागरात्
फलभक्षो दिनत्रय्यां तिलभक्षो दिनत्रयम्
दशपञ्च दिनान्येवं प्रायश्चित्तं समाचरेत् विनीतात्मा शुचिर्भूत्वा य इच्छेत्सुशुभां गतिम्
इति श्रीवराहपुराणे जालपादभक्षणापराधप्रायश्चित्तं नाम पञ्चत्रिंशदधिकशततमोऽध्यायः
अथ प्रायश्चित्तकर्मसूत्रम् दीपं स्पृष्ट्वा तु यो देवि मम कर्माणि कारयेत्