रजस्वलासु नारीषु रजो यत्तत्प्रवर्त्तते
वर्षाणि दश पञ्चैव वसते तत्र निश्चयात्
प्रायश्चितं प्रवक्ष्यामि तस्य कायविशोधनम्
एकाहारं ततः कृत्वा दिनानि दश सप्त च
एवं स मुच्यते भूमे मम विप्रियकारकः
एतत्ते कथितं भूमे रक्तवस्त्रविभूषिते
यस्तु मामन्धकारेषु विना दीपेन सुन्दरि
पतनं तस्य वक्ष्यामि शृणुष्व त्वं वसुन्धरे
अन्धो भूत्वा महाभागे एकं जन्म तमोमयः 135.
अनन्यमानसो भूत्वा भूमे ह्येतत्प्रसाधयेत्
संस्पृशेत्सोऽपि धर्मात्मा येन लोकं मम व्रजेत्
एकाहारं ततः कृत्वा दिनविंशं समाहितः
एकाहारस्ततो भूत्वा निषीदेच्च जलाशनः
प्रायश्चित्तेन चैतेन मुच्यते पातकात्ततः
देवि कर्माणि कुर्वीत तस्य वै पातनं शृणु
पञ्च वर्षाणि नकुलो दश वर्षाणि कच्छपः
पारावतेषु जायेत नव वर्षाणि पञ्च च
मम तिष्ठति पार्श्वेषु यत्रैवाहं प्रतिष्ठितः
येनासौ लभते सिद्धिं कृष्णवस्त्रापराधतः 135.
त्रीणि पिण्डांस्त्रिरात्रं तु एवं मुच्येत किल्बिषात्
शुचिर्भागवतो भूत्वा मम मार्गानुसारतः
वाससा चाप्यधौतेन यो मे कर्माणि कारयेत्
तस्य दोषं प्रवक्ष्यामि अपराधं वसुन्धरे
देवि भूत्वा गजो मत्तस्तिष्ठत्येकं नरो भुवि
गोमायुरेकं जन्मापि जन्म चैकं हयस्तथा
सप्तजन्मान्तरं पश्चात्ततो भवति मानुषः
दक्षो निरपराधश्च अहङ्कारविवर्जितः श्रुतमेतन्मया देव यत्त्वया समुदाहृतम्
संसारं वाससोच्छिष्टा येन गच्छन्ति मानुषाः
किल्बिषाद्येन मुच्यन्ते तव कर्मपरायणाः शृणु तत्त्वेन मे देवि कथ्यमानं मयाऽनघे ।। 135.
प्रायश्चित्तं प्रवक्ष्यामि मम कर्मपरायणः