प्रत्युवाच विशालाक्षीं धर्मकामो वसुन्धराम्
तस्य ये मुखनिष्क्रान्ता धर्मास्तान्वक्तुमर्हसि ततः स पुण्डरीकाक्षः शङ्खचक्रगदाधरः
वराहरूपी भगवाँल्लोकनाथो जनार्दनः । उवाच मधुरं वाक्यं मेघदुन्दुभिनिःस्वनः
भक्तकर्मसुखार्थाय गुणवित्तसमन्विताम्
देवि कारयते कर्म मम लोकं स गच्छति
मत्पूजनं विधानेन यदीच्छेत्परमां गतिम् 134.
संसारं ते न गच्छन्ति अपराधविवर्ज्जिताः अकर्मण्येन पुष्पेण यो मामर्चयते भुवि
पातनं तस्य वक्ष्यामि तच्छृणुष्व वसुन्धरे
मूर्खा भागवता देवि मम विप्रियकारिणः
अज्ञानस्य च दोषेण दुःखान्यनुभवन्ति च
मूकः पञ्च च वर्षाणि बलीवर्दश्च द्वादश
त्रीणि वर्षाणि महिषो भवत्येव न संशयः
अकर्मण्यं विशालाक्षि पुष्पं ये च ददन्ति वै भगवन्यदि तुष्टोऽसि विशुद्धेनान्तरान्मना
येन शुध्यन्ति ते भक्तास्तव कर्मपरायणाः शृणु तत्त्वेन मे देवि यन्मां त्वं परिपृच्छसि
प्रायश्चित्तं महाभागे येन शुध्यन्ति मानवाः
वीरासनविधींश्चैव कारयेत्सप्त सप्त च ।। 134.
यावकान्नं त्रीण्यहानि वायुभक्षो दिनत्रयम्
सवर्पापप्रमुक्तश्च मम लोकं स गच्छति
इति श्रीवराहपुराणे पूजादिसामयिकापराधप्रायश्चित्तं नाम चतुस्त्रिंशदधिकशततमोऽध्यायः
अथ जालपादभक्षणापराधप्रायश्चित्तम् रक्तवस्त्रेण संयुक्तो यो हि मामुपसर्पति
रजस्वलासु नारीषु रजो यत्तत्प्रवर्त्तते
वर्षाणि दश पञ्चैव वसते तत्र निश्चयात्
प्रायश्चितं प्रवक्ष्यामि तस्य कायविशोधनम्
एकाहारं ततः कृत्वा दिनानि दश सप्त च
एवं स मुच्यते भूमे मम विप्रियकारकः
एतत्ते कथितं भूमे रक्तवस्त्रविभूषिते
यस्तु मामन्धकारेषु विना दीपेन सुन्दरि
पतनं तस्य वक्ष्यामि शृणुष्व त्वं वसुन्धरे
अन्धो भूत्वा महाभागे एकं जन्म तमोमयः 135.
अनन्यमानसो भूत्वा भूमे ह्येतत्प्रसाधयेत्