मां यदा लभते क्रुद्धः शुद्धो भागवतः शुचिः
भेकस्त्रिशतवर्षाणि यातुधानः पुनर्दश
अन्धो जायेत सुश्रोणि पंच सप्त तथा नव
शैवालभक्षिता चैव ह्याकाशगमनं तथा
आत्मकर्मापराधेन प्राप्तः संसारसागरे अहो वै परमं गुह्यं यत्त्वया पूर्वभाषितम्
जातं मे विह्वलं चित्तं न स्थिरं जायते क्वचित् 134.
श्रुत्वा सुदुस्तरं सारं भीतास्मि परिदेविता
मम चैव प्रियार्थाय सर्वलोकसुखावहम्
अल्पसत्त्वा गतभया लोभमोहसमन्विताः
ततः कमलपत्राक्षो वराहः सम्मुखे स्थितः
ततो भूम्या वचः श्रुत्वा ब्रह्मणश्च सुतो मुनिः
धन्या चैव सुभाग्या च यत्त्वया परिपृच्छितम्
किं त्वया भाषितो देवि सर्वयोगाङ्गयोगवित्
कुमारवचनं श्रुत्वा तं मही प्रत्यभाषत
कार्यं क्रियां च योगं च आध्यात्म्यं पार्थिवस्थितम्
ततो मां भाषते ब्रह्मन्विष्णुर्मायाकरण्डकः 134.
कृत्वा तेन व्रतं चैव मम कर्मपरायणः
अष्टौ भिक्षा यथान्यायं शुद्धभागवतां गृहे
मुच्यते किल्बिषात्तस्मादेवमाह जनार्दनः
शीघ्रमाराधयेद्विष्णुं द्विजमुख्यो न संशयः
प्रत्युवाच विशालाक्षीं धर्मकामो वसुन्धराम्
तस्य ये मुखनिष्क्रान्ता धर्मास्तान्वक्तुमर्हसि ततः स पुण्डरीकाक्षः शङ्खचक्रगदाधरः
वराहरूपी भगवाँल्लोकनाथो जनार्दनः । उवाच मधुरं वाक्यं मेघदुन्दुभिनिःस्वनः
भक्तकर्मसुखार्थाय गुणवित्तसमन्विताम्
देवि कारयते कर्म मम लोकं स गच्छति
मत्पूजनं विधानेन यदीच्छेत्परमां गतिम् 134.
संसारं ते न गच्छन्ति अपराधविवर्ज्जिताः अकर्मण्येन पुष्पेण यो मामर्चयते भुवि
पातनं तस्य वक्ष्यामि तच्छृणुष्व वसुन्धरे
मूर्खा भागवता देवि मम विप्रियकारिणः
अज्ञानस्य च दोषेण दुःखान्यनुभवन्ति च