तस्य वक्ष्यामि सुश्रोणि अपराधविशोधनम्
व्रतं चान्द्रायणं कृत्वा विधिदृष्टेन कर्मणा
अविधानेन संस्पृश्य यो हि मामुपसर्पति
तेन दत्तं वरारोहे गन्धमाल्यसुगन्धितम्
ततो नारायणवचः श्रुत्वा सा संशितव्रता
धरण्युवाच उपस्पृश्य समाचारं रहस्यं वक्तुमर्हसि ।। 134.
केन कर्मविधानेन भूत्वा भागवता भुवि
एतन्मे संशयं देव परं कौतूहलं हि मे
श्रीवराह उवाच कथितं मम तत्त्वेन गुह्यमेतत्परं महत्
विमुच्य सर्वकर्माणि यो हि मामुपसर्पति
भूत्वा पूर्वमुखस्तत्र पादौ प्रक्षाल्य चाम्बुभिः
ततः प्रक्षालितं हस्तं जलेन तदनन्तरम्
पादमेकैकशस्तद्वत्पंच पञ्च वदेत्ततः
त्रीणि कोशान्पिबेत्तत्र सर्वपापविशोधनम्
प्राणायामं ततः कृत्वा मम चिन्तापरायणः
त्रीणि वारान्स्पृशेत्तत्र शिरो ब्रह्मणि संस्थितः 134.
स्पृशेत्तु निष्कलस्तत्र यो हि यत्र प्रतिष्ठितः
एवमुक्तस्य कर्त्तव्यं ममाभिगमनेषु च
एवं च कुर्वतस्तस्य मम कर्मव्यवस्थितः
ततो नारायणवचः श्रुत्वा देवी वसुन्धरा
धरण्युवाच तापनं शोधनं चैव तद्भवान्वक्तुमर्हति
श्रीवराह उवाच यां गतिं च प्रपद्यन्ते मम कर्मबहिष्कृताः
व्यभिचारं च मे कृत्वा यश्च मामुपसर्पति
कृमिर्भूत्वा यथान्याय्यं तिष्ठते नात्र संशयः
यच्च कृत्वा महाभागे कृतकृत्यः पुनर्भवेत्
ब्राह्मणः क्षत्रियो वैश्यो मम ये च मते स्थिताः 134.
किल्बिषात्तु प्रमुक्तास्ते गच्छन्ति परमां गतिम्
स्पृशेत मम गात्राणि चित्तं कृत्वा चलाचलम्
इच्छामि च सदा दान्तं शुभं भागवतं शुचिम्
अहङ्कारविनिर्मुक्तं कमर्ण्यभिरतं मम