शृणु तत्त्वेन मे भूमे कथ्यमानं मयाऽनघे
दिव्यवर्षसहस्रं तु रौरवे नरके वसेत् 133.
प्रायश्चित्तं वदाम्यत्र येन मुच्येत किल्बिषात्
एकां जलमयीं शय्यामेकामाकाशशायिनीम्
एतत्ते कथितं भद्रे पुरीषं यः समुत्सृजेत्
इति श्रीवराहपुराणे पूजासमये गुदरवपुरीषोत्सर्गयोः प्रायश्चित्तं नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः
अथ पूजादिसामयिकापराधेषु प्रायश्चित्तानि मुक्त्वा तु मम कर्माणि मम कर्मपरायणः
मूर्खो भवति सुश्रोणि मम कर्मपरायणः
आकाशशयनं कृत्वा दिनानि दश पञ्च च
इति मौनत्यागप्रायश्चित्तम् भूषितो नीलवस्त्रेण यो हि मामुपपद्यते
तस्य वक्ष्यामि सुश्रोणि अपराधविशोधनम्
व्रतं चान्द्रायणं कृत्वा विधिदृष्टेन कर्मणा
अविधानेन संस्पृश्य यो हि मामुपसर्पति
तेन दत्तं वरारोहे गन्धमाल्यसुगन्धितम्
ततो नारायणवचः श्रुत्वा सा संशितव्रता
धरण्युवाच उपस्पृश्य समाचारं रहस्यं वक्तुमर्हसि ।। 134.
केन कर्मविधानेन भूत्वा भागवता भुवि
एतन्मे संशयं देव परं कौतूहलं हि मे
श्रीवराह उवाच कथितं मम तत्त्वेन गुह्यमेतत्परं महत्
विमुच्य सर्वकर्माणि यो हि मामुपसर्पति
भूत्वा पूर्वमुखस्तत्र पादौ प्रक्षाल्य चाम्बुभिः
ततः प्रक्षालितं हस्तं जलेन तदनन्तरम्
पादमेकैकशस्तद्वत्पंच पञ्च वदेत्ततः
त्रीणि कोशान्पिबेत्तत्र सर्वपापविशोधनम्
प्राणायामं ततः कृत्वा मम चिन्तापरायणः
त्रीणि वारान्स्पृशेत्तत्र शिरो ब्रह्मणि संस्थितः 134.
स्पृशेत्तु निष्कलस्तत्र यो हि यत्र प्रतिष्ठितः
एवमुक्तस्य कर्त्तव्यं ममाभिगमनेषु च
एवं च कुर्वतस्तस्य मम कर्मव्यवस्थितः
ततो नारायणवचः श्रुत्वा देवी वसुन्धरा