विमुक्तः सर्वपापेभ्यो नापराधोऽस्ति तस्य वै
रागमोहेन संयुक्तः कामेन च वशीकृतः 132.
अन्धश्च जायते देवि दरिद्रो ज्ञानमूर्खवान्
अपराधमिमं कृत्वा तत्रैवं नास्ति संशयः तव देव प्रपन्नानां मोक्षं संसारसागरात्
अपराधसमायुक्तस्तव कर्मपरायणः
श्रीवराह उवाच तपः कृत्वा त्रिरात्रं तु आकाशशयने वसेत्
शुद्धो भागवतो भूत्वा मम कर्मपरायणः
मुच्यते किल्बिषाद्देवि आचारेण बहिष्कृतः
स्पृष्ट्वा तु मृतकं देवि यो मत्क्षेत्रेषु तिष्ठति
दशवषर्सहस्राणि चण्डालश्चैव जायते
मक्षिका त्रीणि वर्षाणि टिट्टिभैकादशं समाः
हस्ती वर्षशतं चैव खरो द्वात्रिंशकं भवेत् 132.
एवं स चात्मदोषेण मम कर्मपरायणः
ततो हरेर्वचः श्रुत्वा दुःखेन परिपृच्छति
धरण्युवाच वाक्यं भीषणमत्यन्तं मम मर्मप्रभेदकम्
आचाराच्च परिभ्रष्टस्तवकर्मपरायणः
श्रुत्वा पृथ्व्यास्तथा वाक्यं लोकनाथो जनार्द्दनः
श्रीवराह उवाच एकाहारं ततस्तिष्ठेद्दिनानि दश पञ्च च
तत एवं विधिं कृत्वा पञ्चगव्यं तु प्राशयेत्
एतत्ते कथितं देवि स्पृष्ट्वा मृतकमेव च
य एतेन विधानेन प्रायश्चित्तं समाचरेत्
इति श्रीवराहपुराणे मृतकस्पर्शनप्रायश्चित्तं नाम द्वात्रिंशदधिकशततमोऽध्यायः
अथ पूजासामयिकगुदरवपुरीषोत्सर्जनयोः प्रायश्चित्तम् स्पृशमानेन मां भूमे वातकर्म प्रमुच्यते
मक्षिका पञ्च वर्षाणि त्रीणि वर्षाणि मूषकः
एष वै तापनं देवि मोहनं मम सांप्रतम्
श्रुत्वा वाक्यं हृषीकेशं प्रत्युवाच वसुन्धरा अतुलं लभते पापं तव कर्मपरायणः
तस्य देव सुखार्थाय विशुद्धिं वक्तुमर्हसि शृणु कार्त्स्न्येन मे देवि कथ्यमानं मयाऽनघे
अपराधमिमं कृत्वा सन्तरेद्येन कर्मणा
कर्म चैवं ततः कृत्वा स च मे नापराध्यति
एतत्ते कथितं भद्रे महाकर्मापराधिनः