कुतस्तस्यापराधोऽस्ति एवमेव न संशयः
इति श्रीवराहपुराणे दन्तकाष्ठाचर्वणप्रायश्चित्तं नामैकत्रिंशदधिकशततमोऽध्यायः
अथ मृतकस्पर्शप्रायश्चित्तम् गत्वा तु मैथुनं भद्रे अस्नातो यः शवं स्पृशेत्
वर्षं नारायणाच्छ्रुत्वा सा मही संशितव्रता
धरण्युवाच कथमेवं पुमान्वै स रेतःपानपरो भवेत्
एतन्मे परमं दुःखं तद्भवान्वक्तुमर्हति शृणु तत्त्वेन मे देवि इदं गुह्यमनुत्तमम्
चिह्नमैतद्वरारोहे आधिचारविनिश्चयः
दृष्टं तस्यापराधस्य फलं प्राप्नोति मानवः
अपराधस्य दोषेण विशुद्धिश्च न जायते
गृहस्थाः पुरुषा भद्रे मम कर्मपरायणाः
वायुभक्षं दिनं त्वेकं ततो मुच्येत किल्बिषात्
ज्ञात्वा कर्मापराधं तु न स पापेन लिप्यते 132.
प्रायश्चित्तं महाभागे मम लोकसुखावहम्
मम शास्त्रं बहिष्कृत्य यः श्मशानं प्रपद्यते
श्मशाने जम्बुका भूत्वा भक्षयन्ति शवान् तथा
उवाच मधुरं वाक्यं सर्वलोकहिताय वै तव नाथ प्रपन्नानां क्व पापं विद्यते प्रभो
प्रायश्चित्तं च मे ब्रूहि येन मुच्यन्ति किल्बिषात् शृणु सुन्दरि तत्त्वेन यन्मां त्वं परिपृच्छसि
कथयिष्यामि ते हीदं शोभनं पापनाशनम्
पंचगव्यं ततः पीत्वा ततो मुच्येत किल्बिषात्
सर्वथा वर्जनीयं वै सर्वभागवतेन तु
विमुक्तः सर्वपापेभ्यो नापराधोऽस्ति तस्य वै
रागमोहेन संयुक्तः कामेन च वशीकृतः 132.
अन्धश्च जायते देवि दरिद्रो ज्ञानमूर्खवान्
अपराधमिमं कृत्वा तत्रैवं नास्ति संशयः तव देव प्रपन्नानां मोक्षं संसारसागरात्
अपराधसमायुक्तस्तव कर्मपरायणः
श्रीवराह उवाच तपः कृत्वा त्रिरात्रं तु आकाशशयने वसेत्
शुद्धो भागवतो भूत्वा मम कर्मपरायणः
मुच्यते किल्बिषाद्देवि आचारेण बहिष्कृतः
स्पृष्ट्वा तु मृतकं देवि यो मत्क्षेत्रेषु तिष्ठति
दशवषर्सहस्राणि चण्डालश्चैव जायते