कर्मणा केन शुद्ध्यन्ति अपराधस्य कारिणः
तद्वै भूम्या वचः श्रुत्वा हृषीकेशो महामनाः
श्रीवराह उवाच ये तु भुञ्जन्ति राजान्नं लोभेन च भयेन वा
आपद्गता हि भुञ्जन्ति राजान्नं तु वसुन्धरे
भगवद्वचनं श्रुत्वा कम्पिता च वसुन्धरा 130.
ततो दीनमना भूत्वा सा मही संशितव्रता
धरण्युवाच को नु दोषोऽस्ति राज्ञां हि तन्मे त्वं वक्तुमर्हसि
ततो भूम्या वचः श्रुत्वा सर्वधर्मविदां वरः
श्रीवराह उवाच राजान्नं तु न भोक्तव्यं शुभैभार्गवतैः सदा
यद्यप्येष समत्वेन राजा लोके प्रवर्त्तते
अपि वा गर्हितं तेन राजान्नं तु वसुन्धरे
ततो यद्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
स्थापयित्वा तु मां देवि विधिदृष्टेन कर्मणा
सिद्धं भागवतैश्चान्नं मम प्रापणशेषकम्
एवं विष्णुवचः श्रुत्वा धरणी संशितव्रता 130.
धरण्युवाच कर्मणा केन शुद्ध्येत तन्मे ब्रूहि जनार्दन
श्रीवराह उवाच तरन्ति पुरुषा येन राजान्नस्योपभुञ्जकाः
एकं चान्द्रायणं कृत्वा तप्तकृच्छ्रं च पुष्कलम्
न तस्य चापराधोऽस्ति वसुधे वै वचो मम ममात्र पूजाकामेन यदीच्छेत्परमां गतिम्
इति श्रीवराहपुराणे भगवच्छास्त्रे राजान्नप्रायश्चित्तं नाम त्रिंशदधिकशततमोऽध्यायः
अथ दन्तकाष्ठाचर्वणप्रायश्चित्तम् दन्तकाष्ठमचर्वित्वा यो हि मामुपसर्पति
नारायणवचः श्रुत्वा पृथिवी धर्मसंश्रितः
धरण्युवाच कथमेकापराधेन सर्वमेव प्रणश्यति
श्रीवराह उवाच येन चैकापराधेन पूर्वकर्म प्रणश्यति
मनुष्यः किल्बिषी भद्रे कफपित्तसमन्वितः
तत्सर्वबीजं नश्येत दन्तकाष्ठस्य भक्षणात्
धरण्युवाच प्रायश्चित्तं च मे ब्रूहि येन धर्मो न नश्यति
श्रीवराह उवाच कथयिष्यामि हीदं ते यथा शुद्ध्यन्ति मानवाः
आकाशशयनं कृत्वा दिनानि द्वे च पंच च
एवं ते कथितं भद्रे दन्तकाष्ठस्य भक्षणम् 131.