एवमुक्तास्ततो देवा मेरुपर्वतसन्निधौ । प्रतस्थुस्तेऽथ मनसा चिन्तयन्तो जनार्दनम् ।। १०.
तैः संचिन्तितमात्रस्तु देवश्चक्रगदाधरः । आवयोः सैन्यमाविश्य एक एव महाबलः ।। १०.
एकधा दशधात्मानं शतधा च सहस्त्रधा । लक्षधा कोटिधा कृत्वा स्वभूत्या च जगत्पतिः ।। १०.
एवं स्थिते देववरे अस्मत्सैन्ये महाबलः । यः कश्चिदसुरो राजन्नावयोर्बलमाश्रितः । स हतः पतितो भूमौ दृश्यते गतचेतनः ।। १०.
एवं तत् सहसा सैन्यं मायया विश्वमूर्तिना । निहतं साश्वकलिलं पत्तिद्विपसमाकुलम् ।। १०.
चतुरङ्गं बलं सर्वं हत्वा देवो रथाङ्गधृक् । आवां शोषावथो दृष्ट्वा गतोऽन्तर्द्धानमीश्वरः ।। १०.
आवयोरीदृशं कर्म दृष्टं देवस्य शार्ङ्गिणः । ततस्तमेव शरणं गतावाराधनाय वै ।। १०.
त्वं चास्मन्मित्रतनयः सुप्रतीकात्मजो नृप । इमे च आवयोः कन्ये गृहाण मनुजेश्वर । हेतृकन्या सुकेशी तु मिश्रकेशी प्रहेतृणः ।। १०.
दुर्जयस्त्वेवमुक्तस्तु हेतृणा ते उभे शुभे । कन्ये जग्राह धर्मेण भार्यार्थं मनुजेश्वरः ।। १०.
ते लब्ध्वा सहसा राजा मुदा परमया युतः । आजगाम स्वकं राष्ट्रं निजसैन्यसमावृतः ।। १०.
ततः कालेन महता तस्य पुत्रद्वयं बभौ । सुकेश्याः सुप्रभः पुत्रो मिश्रकेश्याः सुदर्शनः ।। १०.
स राजा दुर्जयः श्रीमाँल्लब्ध्वा पुत्रद्वयं शुभम् । स्वयं कालान्तरे श्रीमाञ्जगामारण्यमन्तिके ।। १०.
तत्रस्थो वनजातीर्हि बधयन् वै भयंकराः । ददर्शारण्यमाश्रित्य मुनिं स्थितमकल्मषम् ।। १०.
तपस्यन्तं महाभागं नाम्ना गौरमुखं शुभम् । ऋषिवृन्दस्य गोप्तारं त्रातारं पापिनः स्वयम् ।। १०.
तस्याश्रमे विमलजलाविलेमरु- त्सुगन्धिवृक्षप्रवरे द्विजन्मनः । रराज जीमूत इवाम्बरान्मही- मुपागतः प्रवरविमानवद् गृहः ।। १०.
ज्वलनमखाग्निप्रतिभाषिताम्बरः सुशुद्धसंवासितवेशकुट्टकः । शिष्यैः समुच्चारितसामनादकः सुरूपयोषिदृषिकन्यकाकुलः । इतीदृशोऽस्यावसाथो वराश्रमे सुपुष्पिताशेषतरुप्रसूनः ।। १०.
श्रीवराह उवाच । ततस्तमीदृशं दृष्ट्वा तदा गौरमुखाश्रमम् । दुर्ज्जयश्चिन्तयामास रम्यमाश्रममण्डलम् ।। ११.
प्रविशाम्यत्र पश्यामि ऋषीन् परमधार्मिकान् । चिन्तयित्वा तदा राजा प्रविवेश तमाश्रमम् ।। ११.
तस्य प्रविष्टस्य ततो राज्ञः परमहर्षितः । चकार पूजां धर्मात्मा तदा गौरमुखो मुनिः ।। ११.
स्वागतादिक्रियाः कृत्वा कथान्ते तं महामुनिः । स्वशक्त्याऽहं नृपश्रेष्ठ सानुगस्य च भोजनम् ।। ११.
करिष्यामि प्रमुच्यन्तां साधु वाहा इति द्विजः । एवमुक्त्वा स्थितस्तूष्णीं स मुनिः संशितव्रतः ।। ११.
राजाऽपि तस्थौ तद्भक्त्या स्वसहायैः समन्वितः । अक्षौहिण्यो बलस्यास्य पञ्चमात्रास्तदा स्थिताः । अयं च तापसः किं मे दास्यते भोजनं त्विह ।। ११.
निमन्त्र्य दुर्जयं विप्रस्तदा गौरमुखो नृपम् । चिन्तयामास किं चास्य मया देयं तु भोजनम् ।। ११.
एवं चिन्तयतस्तस्य महर्षेर्भावितात्मनः । स्थितो मनसि देवेशो हरिर्नारायणः प्रभुः ।। ११.
ततः संस्मृत्य मनसा देवं नारायणं तदा । तोषयामास गङ्गायां प्रविश्य मुनिसत्तमः ।। ११.
धरण्युवाच । कथं गौरमुखो विष्णुं तोषयामास भूधर । एतन्मे कौतुकं श्रोतुं सम्यगिच्छा प्रवर्त्तते ।। ११.
नमोऽस्तु विष्णवे नित्यं नमस्ते पीतवाससे । नमस्ते चाद्यरूपाय नमस्ते जलरूपिणे ।। ११.
नमस्ते सर्वसंस्थाय नमस्ते जलशायिने । नमस्ते क्षितिरूपाय नमस्ते तेजसात्मने ।। ११.
नमस्ते वायुरूपाय नमस्ते व्योमरूपिणे । त्वं देवः सर्वभूतानां प्रभुस्त्वमसि हृच्छयः ।। ११.
त्वमोङ्कारो वषट्कारः सर्वत्रैव च संस्थितः । त्वमादिः सर्वदेवानां तव चादिर्न विद्यते ।। ११.