तावद्वर्षसहस्राणि मम लोके स मोदते
मन्त्रः – भवोद्भवमादिव्यक्तरूपमादित्यं सर्वे देवा ब्रह्मरुद्रेन्द्रास्त्वां च
वयं देवमादिमव्यक्तरूपं कृत्वा चात्मनि देव संस्थास्तथापि
अनेनैव हि मन्त्रेण सन्ध्यां कुर्यात्तु दीक्षितः ।। 129.
इति श्रीवराहपुराणे चतुर्वर्णदीक्षाताम्रवर्णनं नामोनत्रिंशदधिकशततमोऽध्यायः
अथ राजान्नभोगे प्रायश्चित्तम् एवं दीक्षां ततः श्रुत्वा नारायणमुखान्मही
धरण्युवाच श्रुत्वाहं तु महाभाग जातास्मि विमला विभो
अहो देवस्य माहात्म्यं लोकनाथस्य तत्त्वतः
एकं मे परमं गुह्यं यदीश हृदि वर्त्तते
देव पूर्वापराधास्ते द्वात्रिंशदपि कीर्तिताः
कर्मणा केन शुद्ध्यन्ति अपराधस्य कारिणः
तद्वै भूम्या वचः श्रुत्वा हृषीकेशो महामनाः
श्रीवराह उवाच ये तु भुञ्जन्ति राजान्नं लोभेन च भयेन वा
आपद्गता हि भुञ्जन्ति राजान्नं तु वसुन्धरे
भगवद्वचनं श्रुत्वा कम्पिता च वसुन्धरा 130.
ततो दीनमना भूत्वा सा मही संशितव्रता
धरण्युवाच को नु दोषोऽस्ति राज्ञां हि तन्मे त्वं वक्तुमर्हसि
ततो भूम्या वचः श्रुत्वा सर्वधर्मविदां वरः
श्रीवराह उवाच राजान्नं तु न भोक्तव्यं शुभैभार्गवतैः सदा
यद्यप्येष समत्वेन राजा लोके प्रवर्त्तते
अपि वा गर्हितं तेन राजान्नं तु वसुन्धरे
ततो यद्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
स्थापयित्वा तु मां देवि विधिदृष्टेन कर्मणा
सिद्धं भागवतैश्चान्नं मम प्रापणशेषकम्
एवं विष्णुवचः श्रुत्वा धरणी संशितव्रता 130.
धरण्युवाच कर्मणा केन शुद्ध्येत तन्मे ब्रूहि जनार्दन
श्रीवराह उवाच तरन्ति पुरुषा येन राजान्नस्योपभुञ्जकाः
एकं चान्द्रायणं कृत्वा तप्तकृच्छ्रं च पुष्कलम्
न तस्य चापराधोऽस्ति वसुधे वै वचो मम ममात्र पूजाकामेन यदीच्छेत्परमां गतिम्
इति श्रीवराहपुराणे भगवच्छास्त्रे राजान्नप्रायश्चित्तं नाम त्रिंशदधिकशततमोऽध्यायः