पूर्वं कमलपत्राक्षि गुडाकेशो महासुरः
तत आराधितस्तेन वर्षाणां तु चतुर्दश
अहं तु तपसा तुष्टस्तीव्रेण कृतनिश्चयात्
दृष्ट्वाश्रमं महादेवि किञ्चिदेव सुभाषितम्
चतुर्बाहुं च मां दृष्ट्वा मम कर्मपरायणः तं च दृष्ट्वा मया प्रोक्तं प्रसन्नेनान्तरात्मना ।। 129.
गुडाकेश महाभाग ब्रूहि किं करवाणि ते
यत्त्वया चिन्तितं सौम्य कर्मणा मनसा गिरा
एवं मम वचः श्रुत्वा गुडकेशोऽब्रवीदिदम्
यदि तुष्टोऽसि मे देव समस्तेनान्तरात्मना
चक्रेण वधमिच्छामि त्वया मुक्तेन केशव
चकेण पातितस्यैतद्वसामांसानि किं चन
तेन पात्रं ततः कृत्वा शुभधर्मविनिश्चितः
निवेदिते परा प्रीतिर्भवत्वेतन्मनोगतम्
यच्चिन्तितोऽसि देवेश उग्रे तपति तिष्ठता
तावत्ताम्रस्थितो भूत्वा मम संस्थो भविष्यसि 129.
तत्ताम्रभाजने मह्यं दीयते यत्सुपुष्कलम्
मङ्गल्यं च पवित्रं च ताम्रं तेन प्रियं मम
वैशाखस्य तु मासस्य शुक्लपक्षे तु द्वादशी
एष्यसे मम लोकाय एवमेतन्न संशयः
चक्राद्वधमभीप्सन्वै सोऽपि मत्कर्मणि स्थितः
शुक्लपक्षस्य सम्प्राप्ता तस्यां धर्मविनिश्चितः
मुञ्च मुञ्च प्रभो चक्रमपि वह्निसमप्रभम्
तदैव चक्रेण विपाटितोऽसौ प्राप्तोऽपि मां भागवतप्रधानः रङ्गं च सीसं त्रपुधातुसंस्थं कांस्यं च रीतिश्च मलस्तु तेषाम्
ताम्रपात्रेण वै भूमे प्रापणं यत्प्रदीयते 129.
एतद्भागवतैः कार्यं मम प्रियकरैः सदा
दीक्षितैर्वै भागवतैः पाद्यार्घ्यादौ च दीयते
देवि तत्त्वेन कथितः किमन्यत् परिपृच्छसि देवदेव कथं सन्ध्यां दीक्षितः कुरुते वद
केन मन्त्रेण वा भक्तस्तव कर्मपरायणः शृणु माधवि तत्त्वेन सन्ध्यामन्त्रमनुत्तमम्
यथा वदन्ति वै सूर्यं सन्ध्यां पूर्वां परां तथा
मुहूर्त्तं ध्यानमास्थाय इमं मन्त्रमुदीरयेत्