नारायणवचः श्रुत्वा विस्मिता च वसुन्धरा
श्रुता मया भागवतास्तव कर्मपरायणाः
तव प्रापणकं कृत्यं केषु पात्रेषु कारयेत्
ततो भूमेर्वचः श्रुत्वा लोकनाथोऽब्रवीदिदम्
तानि ते कथयिष्यामि त्वया मे पूर्वपृच्छितम् 129.
सर्वाणि तानि त्यक्त्वेह ताम्रं च मम रोचते
उवाच मधुरं वाक्यं लोकनाथं जनार्द्दनम्
ततो भूमेर्वचः श्रुत्वा अनादिरपराजितः
शृणु तत्त्वेन मे भूमे कथ्यमानं मयाऽनघे
सप्तयुगसहस्राणि आदिकालेऽथ माधवि
पूर्वं कमलपत्राक्षि गुडाकेशो महासुरः
तत आराधितस्तेन वर्षाणां तु चतुर्दश
अहं तु तपसा तुष्टस्तीव्रेण कृतनिश्चयात्
दृष्ट्वाश्रमं महादेवि किञ्चिदेव सुभाषितम्
चतुर्बाहुं च मां दृष्ट्वा मम कर्मपरायणः तं च दृष्ट्वा मया प्रोक्तं प्रसन्नेनान्तरात्मना ।। 129.
गुडाकेश महाभाग ब्रूहि किं करवाणि ते
यत्त्वया चिन्तितं सौम्य कर्मणा मनसा गिरा
एवं मम वचः श्रुत्वा गुडकेशोऽब्रवीदिदम्
यदि तुष्टोऽसि मे देव समस्तेनान्तरात्मना
चक्रेण वधमिच्छामि त्वया मुक्तेन केशव
चकेण पातितस्यैतद्वसामांसानि किं चन
तेन पात्रं ततः कृत्वा शुभधर्मविनिश्चितः
निवेदिते परा प्रीतिर्भवत्वेतन्मनोगतम्
यच्चिन्तितोऽसि देवेश उग्रे तपति तिष्ठता
तावत्ताम्रस्थितो भूत्वा मम संस्थो भविष्यसि 129.
तत्ताम्रभाजने मह्यं दीयते यत्सुपुष्कलम्
मङ्गल्यं च पवित्रं च ताम्रं तेन प्रियं मम
वैशाखस्य तु मासस्य शुक्लपक्षे तु द्वादशी
एष्यसे मम लोकाय एवमेतन्न संशयः
चक्राद्वधमभीप्सन्वै सोऽपि मत्कर्मणि स्थितः