एषा चैव वरारोहे गृहीत्वा गणनान्तिका
उत्तमाष्टाधिकशतं पंचाशत्तुर्यमध्यमा 128.
रुद्राक्षैरुत्तमा सा तु मध्यमा पुत्रजीवकैः
एतत्कश्चिन्न जानाति जन्मान्तरशतैरपि
नोच्छिष्टः संस्पृशेत्तां तु स्त्रीणां हस्ते न कारयेत्
न दर्शयेच्च कस्यापि चिन्तयित्वा तु पूजयेत्
एवं हि विधिपूर्वेण पालयेत गणान्तिकाम्
एवं विष्णोर्वचः श्रुत्वा धरणी संशितव्रता
दर्पणं ते कथं देयं तन्ममाख्याहि माधव
धरण्यास्तद्वचः श्रुत्वा वराहः पुनरब्रवीत्
नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत्
मन्त्रः – श्रुतिर्भागवती श्रेष्ठा श्रुती अग्निद्विजश्च तव मुखं नासेऽश्विनौ नयने चन्द्रसूर्यौ मुखं च चन्द्र इव गात्राणि जगत्प्रधानानीमं च दर्पणं पश्य पश्य रूपम् ।। 128.
य एतेन विधानेन मम कर्मपरायणः
एतेन मन्त्रेण वै भूमे उपचारस्तु ईदृशः
इति श्रीवराहपुराणे कङ्कताञ्जनदर्पणनाम अष्टाविंशत्यधिकशततमोऽध्यायः
अथ चतुर्वर्णदीक्षा भूषितालंकृतं कृत्वा मम कर्मपरायणः
शिरसा चाञ्जलिं कृत्वा वसुधा पुनरब्रवीत् एतन्मां परमं गुह्यं तद्भक्तां वक्तुमर्हसि वद भागवतीं शुद्धां तव कर्मविनिश्चिताम् वराहरूपो भगवान्प्रत्युवाच वसुन्धराम् माधवि तत्त्वेन यन्मां त्वं परिपृच्छसि यथावद्विदितं भूपैः पुण्या भागवताः शुभाः कुर्वीतैव परां सन्ध्यां यथावदिति निश्चितम् मुहूर्तध्यानमास्थाय इमं मन्त्रमुदाहरेत् मन्त्राणां परमो मन्त्रस्तपतां परमं तपः गुह्यानां परमं गुह्यं रहस्यं परमुत्तमम् नादीक्षिताय दातव्यं नोपवीते कथंचन पुनरन्यत्प्रवक्ष्यामि देवि तत्त्वेन मे शृणु कृत्वा तु मम कर्माणि गृह्य दीपकमुत्तमम् मन्त्रः – ॐ नमो भगवतेऽनुग्रह तेजसे विष्णो सर्वदेवास्त्वाग्निसंस्थाः प्रविष्टा एवं चाग्निस्तव तेजसा भविष्यति स्वतेजसा मामाशु मन्त्रस्य तेजसा संसारार्थं देव गृह्यं दीपकं मन्त्रं मूर्त्तिमन्त्रं श्वो भूत्वा इमं कर्म निष्फलम् तारिताः पितरस्तेन निष्कलाश्च पितामहाः अन्यच्च ते प्रवक्ष्यामि कर्म लोकसुखावहम्
येन मन्त्रेण दातव्यं ललाटे तिलकं मम
मन्त्रः – मुखमण्डनं चिन्तया वासुदेव त्वया प्रयुक्तं च मयोपनीतम्
एतेन मन्त्रेण चित्रकं मे दद्याल्ललाटे तिलकं धरित्रि
मन्त्रः – इमाः सुमनसः सौमनस्याय भगवन् सर्वं सुमनसं कुरु त्वयैते सौमनस्याय निर्मिता गृहीताः स्वाहा
एवं सुमनसो दत्त्वा धूपं चैव निवेदयेत्
नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत्
अमुना चैव धूपेन धूपितानि तवाऽनघ
गृहाणेमं च मे धूपं सर्वसंसारमोक्षणम् 129.
यथावृत्तं तु गृह्णामि मम भक्तैः सुखावहम्
जानुसंस्थं ततः कृत्वा इमं मन्त्रमुदीरयेत्
मन्त्रः – नमो भगवते तेजते विष्णो सर्वे देवास्त्वग्निसंस्थाः प्रतिष्ठा
मन्त्रश्च – तेजः संसारान्मोचयितुं देव गृह्णीष्व दीपं द्युतिमन्तश्च
मां करोति यथान्यायं दीपकं ददते नरः