कुर्यान्निरामिषं तत्र दिनानि त्रीणि निश्चितः
ममाग्रतो वरारोहे प्रज्वाल्य च हुताशनम्
ततः शिष्यो गुरुश्चैव दीक्षितः शुचिरुत्तमः 128.
मन्त्रः – या धारिता पूर्वपितामहेन ब्रह्मण्यदेवेन भवोद्भवेन
तत एतेन मन्त्रेण गुरुर्गृह्य गणान्तिकम्
मन्त्रः – नारायणस्य दक्षिणगात्रजातां स्वशिष्य गृह्णीष्व समयेन देवीम्
धरण्युवाच प्रसाधनविधिं चैव केन मन्त्रेण कल्पयेत्
अकर्मण्येन मुच्येत तव कर्मपरायणः
धर्मसंयुक्तवाक्येन प्रत्युवाच वसुन्धराम्
श्रीवराह उवाच स्नानस्यैवोपचाराणि यानि कुर्वन्ति कर्म्मिणः
वृत्तेष्वेवोपचारेषु जलप्राधानिकेषु च
यथा मन्त्रेण दातव्यं तच्छृणुष्व वसुन्धरे
अञ्जनं कङ्कतीं चैव शीघ्रमेव प्रसादयेत् 128.
अञ्जलौ कङ्कतीं गृह्य इमं मन्त्रमुदाहरेत्
मन्त्रः – एतां कङ्कतीमञ्जलिस्थां प्रगृह्य प्रसीद नारायण शिरः प्रसाधि हि
महानुभाव विश्वनेत्रे स्वनेत्रे याभ्यां पश्यसे त्वं त्रिलोकीम्
ततः संस्नापयेद्देवं मन्त्रेणानेन सुव्रतम्
मन्त्रः – देवदेव स्नानीयमिदं मम कल्पितं सुवर्णकलशं गृहाण प्रसीद एषोऽञ्जलिर्मया परिकल्पितः स्नाहि स्नाहीति
नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत्
य एतेन विधानेन मम कर्मणि दीक्षितः कुशिष्याय न दातव्या पिशुनाय शठाय च
एषा चैव वरारोहे गृहीत्वा गणनान्तिका
उत्तमाष्टाधिकशतं पंचाशत्तुर्यमध्यमा 128.
रुद्राक्षैरुत्तमा सा तु मध्यमा पुत्रजीवकैः
एतत्कश्चिन्न जानाति जन्मान्तरशतैरपि
नोच्छिष्टः संस्पृशेत्तां तु स्त्रीणां हस्ते न कारयेत्
न दर्शयेच्च कस्यापि चिन्तयित्वा तु पूजयेत्
एवं हि विधिपूर्वेण पालयेत गणान्तिकाम्
एवं विष्णोर्वचः श्रुत्वा धरणी संशितव्रता
दर्पणं ते कथं देयं तन्ममाख्याहि माधव
धरण्यास्तद्वचः श्रुत्वा वराहः पुनरब्रवीत्