दण्डं च वैष्णवं दद्यान्नीलं वस्त्रं च तस्य वै
ममैव शरणं गत्वा इमं मन्त्रमुदाहरेत्
भक्ष्याभक्ष्यं ततस्त्यक्त्वा त्यक्त्वा वै शूद्रकर्म च 128.
विमुक्तः सर्वपापेभ्यो लब्धसंज्ञो गतस्पृहः
गुरोः प्रसादनार्थाय इमं मन्त्रमुदाहरेत्
मन्त्रः – विष्णुप्रसादे गुह्यं प्रसन्नात्पूर्ववच्च लब्धा चैव संसारमोक्षणाय करोमि कर्म प्रसीद
एतन्मन्त्रं समुच्चार्य कुर्यात्तत्र प्रदक्षिणम्
अनन्तरं ततः कुर्याद्गन्धमाल्येन चार्चनम्
दीक्षा एषा च शूद्राणामुपचारश्च ईदृशः
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
ब्राह्मणे पाण्डुरं छत्रं क्षत्रिये रक्तमेव च
सूत उवाच वराहं पुनरप्याह नत्वा सा धरणी तदा
धरोवाच दीक्षितैः किं नु कर्त्तव्यं तव कर्मपरायणैः ।। 128.
ततो महीवचः श्रुत्वा मेघदुन्दुभिनिःस्वनः
श्रीवराह उवाच सर्वत्र चिन्तनीयोऽहं गुह्यमेव गणान्तिकम्
नारायणवचः श्रुत्वा धरणी शंसितव्रता
शुचिर्भागवतश्रेष्ठा तव कर्मणि नित्यशः
कराभ्यामञ्जलिं कृत्वा नारायणमथाब्रवीत्
धरण्युवाच तव चिन्तापरेणात्र किं कर्त्तव्यं च माधव
केन चिन्तयितव्यस्त्वमचिन्त्यो मानुषैः परः
ततो भूम्या वचः श्रुत्वा आदिरव्यक्तसम्भवः
श्रीवराह उवाच येन चिन्तयसे चिन्तां मम कर्मपरायणा
एषा गणान्तिका नाम दीक्षाऽङ्गबीजनिःसृता 128.
दीक्षितेन तु शुद्धेन मम निश्चितकर्मणा
यस्तु भागवतो भूत्वा तद्गृह्णाति गणान्तिकाम्
तस्य धर्मो न विद्येत दीक्षा तस्य महाफला
आसुरी नाम सा दीक्षा यया धर्मः प्रवर्त्तते
गुह्यां गणान्तिकां यो मां चिन्तयेत्स बुधोत्तमः
ग्रहणस्य प्रवक्ष्यामि यथा शिष्याय दीयते
कौमुदस्य तु मासस्य मार्गशीर्षस्य वाप्यथ ।। । वैशाखस्यापि मासस्य शुक्लपक्षे तु द्वादशी