एषागमे ब्राह्मणस्य दीक्षा भूमे ह्युदाहृता
एतेनैव विधानेन दीक्षयेत वसुन्धरे
इति श्रीवराहपुराणे ब्राह्मणदीक्षासूत्रं नाम सप्तविंशत्यधिकशततमोऽध्यायः
अथ कङ्कताञ्जनदर्पणम् क्षत्रियस्य प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
पूर्वमन्त्रेण मे भूमे तस्य दीक्षां च कारयेत्
तानि सर्वाणि चानीय एकं वर्ज्यं यशस्विनि
पालाशं दण्डकाष्ठं च दीक्षायां न तु कारयेत्
आश्वत्थं दण्डकाष्ठं तु दीक्षायां तदनन्तरम्
सर्वं ममोक्तं कर्त्तव्यं यच्च मे पूर्वभाषितम्
चरणौ मम संगृह्य इमं मन्त्रमुदाहरेत्
मन्त्रः – त्यक्तानि विष्णो शस्त्राणि त्यक्तं सर्वं क्षत्रियकर्म सर्वम्
एवं ततो वचश्चोक्त्वा क्षत्रियो मम पार्श्वतः
मन्त्रः – नाहं शस्त्रं देवदेव स्मृशामि परापवादं न च देव ब्रवीमि 128.
तत एवं वचो ब्रूते सर्वं चैवात्र पूजयेत्
यथोक्तेनैव तान्भूमे भोजयेत्तदनन्तरम्
एषा वै क्षत्रिये दीक्षा देवि संसारमोक्षणम्
वैश्यस्य चैव वक्ष्यामि शृणु तत्त्वेन सुन्दरि
त्यक्त्वा तु वैश्यकर्माणि मम कर्मपरायणः
सर्वं तत्र समानीय यन्मया पूर्वभाषितम्
लेपयेद्गोमयेनादौ पूर्वन्यायेन तत्र वै
उदुम्बरं दन्तकाष्ठं गृहीत्वा दक्षिणे करे
जानुभ्यामवनिङ्गत्वा इमं मन्त्रमुदीरयेत्
मन्त्रः – अहं हि वैश्यो भवन्तमुपागतः प्रमुच्य कर्माणि च वैश्ययोगम् 128.
मामेवं सोपि चोक्त्वा वै मम कर्मप्रसादवान्
त्यक्त्वा वै कृषिगोरक्षावाणिज्यक्रयविक्रयम्
देवाभिवादनं कृत्वा पुरो भागवतेषु च
एवं दीक्षा तु वैश्यानां मम मार्गानुसारिणाम्
शूद्रस्यापि प्रवक्ष्यामि मद्भक्तस्य वराङ्गने
दीक्षाकामस्य शूद्रस्य शीघ्रं तानि प्रकल्पयेत्
अष्टहस्तां ततो देवि सँल्लिप्य नीयतां ततः