ममावाहनपूर्वं तु मन्त्रेण विधिनार्चयेत् यश्चैतद्वर्षति पुनरुन्नमति
ॐ भगवन्वासुदेव ममैतत्सारय युक्तं वराहरूपसृष्टेन पृथिव्यां तु मन्त्रानुस्मरणं च आज्ञापयानुभावनास्माकमाज्ञप्तमनुचिन्तयित्वा भगवन्नागच्छ दीक्षाकामविप्रस्त्वत्प्रसादात्तु दीक्षति
एतन्मन्त्रमुदाहृत्य शिरसा जानुभ्यामवनिं गतेन भवितव्यम्
ॐ स्वागतं स्वागतवानिति
तत एतेन मन्त्रेण आनयित्वा वसुन्धरे
मन्त्रः- अकृतघ्ने देवानसुराकृतघ्नरुद्रेण ब्राह्मणाय च लब्धं सर्वमिमां भगवतेऽस्तु दत्तं प्रतिगृह्णीष्व च लोकनाथ
एवं भूमे ततो दत्त्वा अर्घ्यं पाद्यं च कर्मणा 127.
मन्त्रः – एवं वरुणः पातु शिष्य ते वपतः शिरः
एकस्य कलशं दद्यात्कर्मकारस्य सुन्दरि
पुनः स्नानं ततः कृत्वा शीघ्रमेव न संशयः
दत्त्वा संसारमोक्षाय सर्वकामविनिश्चितः
मन्त्रः - ॐ वेदाम्यहं भागवतांश्च सर्वान् सुदीक्षिता ये गुरवश्च सर्वे
नत्वा तु भगवद्भक्तान् प्रज्वाल्य च हुताशनम्
सप्तवारांस्ततो दत्त्वा विंशतिं च तिलोदनम्
मन्त्रः – अश्विनौ दिशः सोमसूर्यौ साक्षिमात्रं वयं प्रसन्नाः शृण्वन्तु मे सत्यवाक्यं वदामि
सत्येन धार्यते भूमिर्भूमिः सत्येन तिष्ठति
एवं सत्यं ततः कृत्वा ब्राह्मणा वीक्षणं पुनः 127.
तिस्रः प्रदक्षिणाः कृत्वा देवं भागवतं गुरुम्
मन्त्रः – गुरुदेवप्रसादेन लब्धा दीक्षा यदृच्छया
एवं प्रसादयित्वा तु शिष्यो मन्त्रेण सुन्दरि
शिष्यमेव यतो दृष्ट्वा गृहीत्वा च कमण्डलुम्
मन्त्रः – विष्णुप्रसादेन गतोऽसि सिद्धिं प्राप्ता च दीक्षा सकमण्डलुश्च
ततो मुखपदं कृत्वा दीक्षितो गुरुणा तथा
अधोऽधो भूत्वा यद्यहं भ्राम्यल्लँब्धो गुरुर्विष्णुदीक्षा च लब्धा
एतेन मन्त्रेण मुखपदं कारयेत्
एवं वै वास आदत्ते गृह्ण वत्स कमण्डलुम्
मन्त्रः – गृह्णीष्व गन्धपात्राणि सर्वगन्धं सुखोचितम् 127.
मधुपर्कं गृहीत्वा च त्विमं मन्त्रमुदीरयेत्
ततो गृहीत्वा चरणौ गुरोर्यत्नात्सुतोषयेत् गुरूपदिष्टं सन्धार्य इमं मन्त्रमुदीरयेत्
मन्त्रः – शृण्वन्तु मे भागवतास्तु सर्वे गुरुश्च मे सर्वकामक्षयं चकार