चतुरः कलशान्दद्याच्चतुष्पार्श्वेषु सुन्दरि
सर्वतः शुक्लसूत्रेण वेष्टयेत तथानघे
एवं मन्त्रं ततः कृत्वा दद्याद्दीक्षाप्रयोजकः
यथान्यायं च संगृह्य गुरुकर्मविनिश्चितः
उपस्पृश्य यथान्यायं भूत्वा पूर्वमुखस्ततः
यस्तु भागवतान्दृष्ट्वा स्वयं भागवतः शुचिः
कन्यां दत्त्वा पुनस्तांस्तु कर्मणा नोपपादयेत् 127.
भार्यां प्रियसखीं यस्तु साध्वीं हिंसति निर्घृणः
ब्रह्मघ्नश्च कृतघ्नश्च गोघ्नश्च कृतपातकाः
बिल्ववृक्षोदुम्बरौ च तथा चान्ये कदाचन
यदीच्छेत्परमां सिद्धिं मोक्षधर्मं सनातनम्
करीरस्य वधः शस्तः फलान्यौदुम्बरस्य च
न भक्षणीयं वाराहं मांसं मत्स्याश्च सर्वशः
परीवादं न कुर्वीत न हिंसां वा कदाचन
अतिथिं चागतं दृष्ट्वा दूराध्वानं गतं क्वचित्
गुरुपत्नी राजपत्नी ब्राह्मणस्त्री कदाचन
कनकादीनि रत्नानि यौवनस्था च कामिनी 127.
दृष्ट्वा परस्य भाग्यानि आत्मनो व्यसनं तथा
एवं ततः श्रावयीत दीक्षाकामं वसुन्धरे
द्वे द्वे औदुम्बरस्य पत्रे वेदिमध्ये तु स्थापयेत्
ममावाहनपूर्वं तु मन्त्रेण विधिनार्चयेत् यश्चैतद्वर्षति पुनरुन्नमति
ॐ भगवन्वासुदेव ममैतत्सारय युक्तं वराहरूपसृष्टेन पृथिव्यां तु मन्त्रानुस्मरणं च आज्ञापयानुभावनास्माकमाज्ञप्तमनुचिन्तयित्वा भगवन्नागच्छ दीक्षाकामविप्रस्त्वत्प्रसादात्तु दीक्षति
एतन्मन्त्रमुदाहृत्य शिरसा जानुभ्यामवनिं गतेन भवितव्यम्
ॐ स्वागतं स्वागतवानिति
तत एतेन मन्त्रेण आनयित्वा वसुन्धरे
मन्त्रः- अकृतघ्ने देवानसुराकृतघ्नरुद्रेण ब्राह्मणाय च लब्धं सर्वमिमां भगवतेऽस्तु दत्तं प्रतिगृह्णीष्व च लोकनाथ
एवं भूमे ततो दत्त्वा अर्घ्यं पाद्यं च कर्मणा 127.
मन्त्रः – एवं वरुणः पातु शिष्य ते वपतः शिरः
एकस्य कलशं दद्यात्कर्मकारस्य सुन्दरि
पुनः स्नानं ततः कृत्वा शीघ्रमेव न संशयः