कृष्णाजिनं च पालाशं दण्डं चैव कमण्डलुम्
यन्त्रिकामर्घपात्रं च चरुस्थालीं सदर्विकाम्
भक्ष्यभोज्यान्नपानं च कर्मण्यांश्चैव संचयान्
यानि कानि च बीजानि रत्नानि विविधानि च
एतान्येवोपहार्याणि गुरुमूले ततः परम्
गुरोस्तु चरणौ गृह्य ब्रूहि किं करवाणि ते
ब्राह्मणो दीक्षमाणस्तु चतुरस्रां तु षोडशहस्तां कृत्वा तत्र च कलशोपरि युञ्जेत् ।। 127.
प्रतिष्ठाप्य विधानेन धान्योपरिदृढं नवम्
तस्योपरि तिलैः पूर्णपात्रं स्थाप्य विधानतः
तत्रार्चनविधिं कृत्वा गुरुधर्मविनिश्चयः
चतुरः कलशान्दद्याच्चतुष्पार्श्वेषु सुन्दरि
सर्वतः शुक्लसूत्रेण वेष्टयेत तथानघे
एवं मन्त्रं ततः कृत्वा दद्याद्दीक्षाप्रयोजकः
यथान्यायं च संगृह्य गुरुकर्मविनिश्चितः
उपस्पृश्य यथान्यायं भूत्वा पूर्वमुखस्ततः
यस्तु भागवतान्दृष्ट्वा स्वयं भागवतः शुचिः
कन्यां दत्त्वा पुनस्तांस्तु कर्मणा नोपपादयेत् 127.
भार्यां प्रियसखीं यस्तु साध्वीं हिंसति निर्घृणः
ब्रह्मघ्नश्च कृतघ्नश्च गोघ्नश्च कृतपातकाः
बिल्ववृक्षोदुम्बरौ च तथा चान्ये कदाचन
यदीच्छेत्परमां सिद्धिं मोक्षधर्मं सनातनम्
करीरस्य वधः शस्तः फलान्यौदुम्बरस्य च
न भक्षणीयं वाराहं मांसं मत्स्याश्च सर्वशः
परीवादं न कुर्वीत न हिंसां वा कदाचन
अतिथिं चागतं दृष्ट्वा दूराध्वानं गतं क्वचित्
गुरुपत्नी राजपत्नी ब्राह्मणस्त्री कदाचन
कनकादीनि रत्नानि यौवनस्था च कामिनी 127.
दृष्ट्वा परस्य भाग्यानि आत्मनो व्यसनं तथा
एवं ततः श्रावयीत दीक्षाकामं वसुन्धरे
द्वे द्वे औदुम्बरस्य पत्रे वेदिमध्ये तु स्थापयेत्