पुनः पृच्छामि ते देव संशयं धर्मसंहितम्
एतन्मे परमं गुह्यं परं कौतूहलं च मे
ततो महीवचः श्रुत्वा मेघदुन्दुभिनिःस्वनः
श्रीवराह उवाच देवा एतन्न जानन्ति ये च योगव्रते स्थिता
एतं धर्मं वरारोहे मङ्गल्यं मुखनिःसृतम्
यच्च पृच्छसि मे भद्रे दीक्षां भागवतीं कथाम्
मयोक्तां लभते कश्चिद्दीक्षां चैव सुखावहाम् 127.
हरन्ति मनुजा येन गर्भसंसारसागरात्
अभिगच्छेद्गुरुं देवि शाधि शिष्योऽस्मि मां गुरो
लाजा मधु कुशाश्चैव घृतं चामृतसन्निभम्
कृष्णाजिनं च पालाशं दण्डं चैव कमण्डलुम्
यन्त्रिकामर्घपात्रं च चरुस्थालीं सदर्विकाम्
भक्ष्यभोज्यान्नपानं च कर्मण्यांश्चैव संचयान्
यानि कानि च बीजानि रत्नानि विविधानि च
एतान्येवोपहार्याणि गुरुमूले ततः परम्
गुरोस्तु चरणौ गृह्य ब्रूहि किं करवाणि ते
ब्राह्मणो दीक्षमाणस्तु चतुरस्रां तु षोडशहस्तां कृत्वा तत्र च कलशोपरि युञ्जेत् ।। 127.
प्रतिष्ठाप्य विधानेन धान्योपरिदृढं नवम्
तस्योपरि तिलैः पूर्णपात्रं स्थाप्य विधानतः
तत्रार्चनविधिं कृत्वा गुरुधर्मविनिश्चयः
चतुरः कलशान्दद्याच्चतुष्पार्श्वेषु सुन्दरि
सर्वतः शुक्लसूत्रेण वेष्टयेत तथानघे
एवं मन्त्रं ततः कृत्वा दद्याद्दीक्षाप्रयोजकः
यथान्यायं च संगृह्य गुरुकर्मविनिश्चितः
उपस्पृश्य यथान्यायं भूत्वा पूर्वमुखस्ततः
यस्तु भागवतान्दृष्ट्वा स्वयं भागवतः शुचिः
कन्यां दत्त्वा पुनस्तांस्तु कर्मणा नोपपादयेत् 127.
भार्यां प्रियसखीं यस्तु साध्वीं हिंसति निर्घृणः
ब्रह्मघ्नश्च कृतघ्नश्च गोघ्नश्च कृतपातकाः
बिल्ववृक्षोदुम्बरौ च तथा चान्ये कदाचन