ततः स्वर्गात्परिभ्रष्टस्तत्तीर्थस्य प्रभावतः 126.
वैशाखस्य तु मासस्य शुक्लपक्षस्य द्वादशी
न जन्म मरणं तस्य न ग्लानिर्न च वै भयम्
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुंधरे
तस्य चिह्नं प्रवक्ष्यामि येन ज्ञापयते शुभे
माघमासे तु सुश्रोणि शुक्लपक्षे तु द्वादशी
तस्मिंकृतोदकस्तीर्थे स्वच्छंदगमनालयः
तत्राथ म्रियते भूमे माघमासस्य द्वाशीम्
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुंधरे
तस्मिन्कुब्जाम्रके भद्रे स्थानं तु मम रोचते
तस्य चिह्नं प्रवक्ष्यामि तच्छृणुष्व शुचिस्मिते 126.
रथचक्रप्रमाणो वै चरते तत्र कच्छपः
स्नात्वा प्राप्नोति सुश्रोणि फलं तत्र महागुणम्
प्राप्नोति वसुधे तत्र एवमेव न संशयः
दशानां पुण्डरीकाणां फलं प्राप्नोति मानवः
सिद्धस्य लभते नित्यं मम लोकाय गच्छति
अग्नितीर्थमिति ख्यातं सिद्धं कुब्जाम्रके स्थितम्
कौमुदस्य तु मासस्य मासो मार्गशिरस्य च
यश्चैव माधवे मासि समये यदि वर्त्तते
तस्य चिह्नं प्रवक्ष्यामि शृणुष्व हि वसुन्धरे
एकाग्रं तु मनः कृत्वा तच्छृणुश्व वसुन्धरे 126.
न हि कश्चिद्विजानाति शास्त्रं मम न यश्च वै
एकचित्तं समाधाय तच्छृणुष्व वसुन्धरे
अग्नितीर्थं महाभागे दीप्तमन्तं सवैष्णवम्
प्राप्नोति तन्महाभागे स्नानमात्रान्न संशयः
स्थित्वा विंशत्यहोरात्रान्मम लोकाय गच्छति
येन विज्ञायते प्राज्ञैर्मम भक्तं सुखावहम्
उष्णकाले भवेच्छीतमेवं चिह्नं तु तद्भवेत्
तरन्ति मानवा येन घोरं संसारसागरम्
वायव्यमितिविख्यातं तीर्थं धर्माद्विनिस्सृतम् । तस्मिंस्तीर्थे तु यः स्नातः कृतनित्योदकक्रियः