एवं संचिन्त्य धर्मात्मा तस्य राज्यं ददौ नृपः । स्वयं च चित्रकूटाख्यं पर्वतं स जगाम ह ।। १०.
दुर्जयोऽपि महद्राज्यं हस्त्यश्वरथवाजिभिः । संयोज्य चिन्तयामास राज्यवृद्धिं प्रति प्रभुः ।। १०.
एवं संचिन्त्य मेधावी हस्त्यश्वरथपत्तिभिः । समेतां वाहिनीं कृत्वा उत्तरां दिशमाश्रितः । तस्य चोत्तरतो देशाः सर्वे सिद्धा महात्मनः ।। १०.
भारताख्यमिदं वर्षं साधयित्वा सुदुर्जयः । ततः किंपुरुषं नाम वर्षं तेनापि साधितम् ।। १०.
ततः परतरं चान्यद्धरिवर्षं जिगाय सः । रम्यं हिरण्मयं चापि कुरुभद्राश्वमेव च । इलावृतं मेरुमध्यमेतत् सर्वं जिगाय सः ।। १०.
जित्वा जम्ब्वाख्यमेतद्धि द्वीपं यावदसौ नृपः । जगाम देवराजानं जेतुं सर्वसुरान्वितम् ।। १०.
मेरुपर्वतमारुह्य देवगन्धर्वदानवान् । गुह्यकान् किं नरान् दैत्यांस्ततो ब्रह्मसुतो मुनिः । नारदो दुर्जयजयं देवराजाय शंसत ।। १०.
तत इन्द्रस्त्वरायुक्तो लोकपालैः समन्वितः । जगाम दुर्जयं हन्तुं सोऽचिरेणास्त्रनिर्ज्जितम् । विहाय पर्वतं मेरुं मर्त्यलोकमिहागतः ।। १०.
पूर्वदेशे च देवेन्द्रो लोकपालैः समं प्रभुः । स्थितवांस्तस्य सुमहच्चरितं संभविष्यति ।। १०.
दुर्जयश्च सुराञ्जित्वा यावत् प्रतिनिवर्त्तते । गन्धमादनपृष्ठे तु स्कन्धावारनिवेशनम् । कृत्वाऽवस्थितसंभारमागतं तापसौ तु तम् ।। १०.
तावगतावथाब्रूतां राजन् दुर्ज्जय लोकपाः । निवारितास्त्वया सर्वं लोकपालैर्विना जगत् । न प्रवर्त्तत तस्मान् नौ देहि तत्पदमुत्तमम् ।। १०.
एवमुक्ते ततस्तौ तु दुर्ज्जयः प्राह धर्मवित् । कौ भवन्ताविति ततस्तावूचतुररिंदमौ । विद्युत्सुविद्युन्नामानावसुराविति मानद ।। १०.
त्वया सम्प्रति चेच्छामो धर्म्यं सत्सु सुसंस्कृतौ । लोकपालमतं सर्वमावां कुर्म सुदुर्जय ।। १०.
एवमुक्ते दुर्ज्जयेन तौ स्वर्गे सन्निवेशितौ । लौकपालौ कृतौ सद्यस्ततोऽन्तर्धानं जग्मतुः ।। १०.
तयोरपि महत्कर्म चरितं च धराधरे । भविष्यति महाराजो दुर्जयो मन्दरोपरि ।। १०.
धनदस्य वनं दिव्यं दृष्ट्वा नन्दनसन्निभम् । मुदा बभ्राम रम्येऽस्मिन् स यावद्राजसत्तमः ।। १०.
तावत्सुवर्णवृक्षाधः कन्याद्वयमपश्यत । अतीवरूपसंपन्नमतीवाद्भुतदर्शनम् ।। १०.
दृष्ट्वा तु विस्मयाविष्टः क इमे शुभलोचने । एवं संचिन्त्य यावत् स क्षणमेकं व्यवस्थितः । तस्मिन् वने तावदुभौ तापसौ सोऽवलोकयत् ।। १०.
तौ दृष्ट्वा सहसा राजा ययौ प्रीत्या परां मुदम् । अवतीर्य द्विपात् तूर्णं नमश्चक्रे तयोः स्वयम् ।। १०.
उपविष्टः स ताभ्यां तु कौश्ये दत्ते वरासने । पृष्टः कस्त्वं कुतश्चासि कस्य वा किमिह स्थितः ।। १०.
तौ प्रहस्याब्रवीद् राजा सुप्रतीकेति विश्रुतः । तस्य पुत्रः समुत्पन्नो दुर्जयो नाम नामतः ।। १०.
पृथिव्यां सर्वराजानो जिगीषन्निह सत्तमौ । आगतोऽस्मि ध्रुवं चैव स्मर्त्तव्योऽहं तपोधनौ । भवन्तौ कौ समाख्यातं ममानुग्रहकाङ्क्षया ।। १०.
तापसावूचतुः । आवां हेतृप्रहेत्राख्यौ मनोः स्वायंभुवः सुतौ । आवां देवविनाशाय गतौ स्वो मेरुपर्वतम् ।। १०.
तत्रावयोर्महासैन्यं गजाश्वरथसंकुलम् । जिगाय सर्वदेवानां शतशोऽथ सहस्त्रशः ।। १०.
ते च देवा महत्सैन्यं दृष्ट्वा सर्वं निपातितम् । असुरैरुज्झितप्राणं ततस्ते शरणं गताः ।। १०.
क्षीराब्धौ यत्र देवेशो हरिः शेते स्वयं प्रभुः । तत्र विज्ञापयामासुः सर्वे प्रणतिपूर्वकम् ।। १०.
देवदेव हरे सर्वं सैन्यं त्वसुरसत्तमैः । पराजितं परित्राहि भीतं विह्वल्लोचनम् ।। १०.
त्वया देवासुरे युद्धे पूर्वं त्राताः स्म केशव । सहस्त्रबाहोः क्रूरस्य समरे कालनेमिनः ।। १०.
इदानीमपि देवेश असुरौ देवकण्टकौ । हेतृप्रहेतृनामानौ बहुसैन्यपरिच्छदौ । तौ हत्वा त्राहि नः सर्वान् देवदेव जगत्पते ।। १०.
एवमुक्तस्ततो देवो विष्णुर्नारायणः प्रभुः । अहं यास्यामि तौ हन्तुमित्युवाच जगत्पतिः ।। १०.