यस्तत्र स्नाति कश्चिद्वै वैशाखस्य तु द्वादशीम् 126.
अथात्र मुंचते प्राणांस्तीर्थे सार्षपके तथा
पुनरन्यत् प्रवक्ष्यामि शृणुष्व शुभलोचने
तत्र सर्वा भवेद्गङ्गा शीतलं जायते जलम्
स्नातो गच्छति सुश्रोणी सोमलोके महीयते
ततः स्वर्गात्परिभ्रष्टो ब्राह्मणश्चैव जायते
अथवा म्रियते तत्र मासि मार्गशिरे तथा
तत्र पश्यति मां नित्यं दीप्तिमन्तं चतुर्भुजम्
पुनरन्यत्प्रवक्ष्याभि तच्छृणुष्व वसुन्धरे ।। अनन्यमानसो भूत्वा भक्तो भागवतो मम
तस्मिंस्तीर्थे तु यः स्नाति कदाचिदपि मानवः
ततः स्वर्गात्परिभ्रष्टस्तत्तीर्थस्य प्रभावतः 126.
वैशाखस्य तु मासस्य शुक्लपक्षस्य द्वादशी
न जन्म मरणं तस्य न ग्लानिर्न च वै भयम्
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुंधरे
तस्य चिह्नं प्रवक्ष्यामि येन ज्ञापयते शुभे
माघमासे तु सुश्रोणि शुक्लपक्षे तु द्वादशी
तस्मिंकृतोदकस्तीर्थे स्वच्छंदगमनालयः
तत्राथ म्रियते भूमे माघमासस्य द्वाशीम्
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुंधरे
तस्मिन्कुब्जाम्रके भद्रे स्थानं तु मम रोचते
तस्य चिह्नं प्रवक्ष्यामि तच्छृणुष्व शुचिस्मिते 126.
रथचक्रप्रमाणो वै चरते तत्र कच्छपः
स्नात्वा प्राप्नोति सुश्रोणि फलं तत्र महागुणम्
प्राप्नोति वसुधे तत्र एवमेव न संशयः
दशानां पुण्डरीकाणां फलं प्राप्नोति मानवः
सिद्धस्य लभते नित्यं मम लोकाय गच्छति
अग्नितीर्थमिति ख्यातं सिद्धं कुब्जाम्रके स्थितम्
कौमुदस्य तु मासस्य मासो मार्गशिरस्य च
यश्चैव माधवे मासि समये यदि वर्त्तते
तस्य चिह्नं प्रवक्ष्यामि शृणुष्व हि वसुन्धरे