यावल्लोका धरिष्यन्ति तावच्चैव महाप्रभो 126.
त्वयि भक्तिः सदा भूयाद्यावत्स्थानं जनार्द्दन
एतदेव परं चित्ते मया चैव विधार्यते
ततस्तस्य वचः श्रुत्वा रैभ्यस्यर्षेरहं पुनः
ममैवं वचनं श्रुत्वा ब्राह्मणः स वसुन्धरे
एतस्य तीर्थवर्यस्य महिमानं त्वया प्रभो
अन्यानि यानि तीर्थानि एतत्क्षेत्राश्रितानि तु
शृणु तत्त्वेन मे ब्रह्मन्यन्मां त्वं परिपृच्छसि
तीर्थं तु कुमुदाकारं तस्मिन् कुब्जाम्रके स्थितम्
कौमुदस्य तु मासस्य तथा मार्गशिरस्य च
यो वै परित्यजेत्प्राणान् स्त्री पुमान्वा नपुंसकम् 126.
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुंधरे
यस्मिन् स्नात्वा विशालाक्षि गच्छते नंदनं वनम्
पूर्णे वर्षसहस्रे तु जायते विपुले कुले
तत्राथ मुंचते प्राणान् कौमुदस्य तु द्वादशी
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुंधरे
तस्मिन् कृतोदको ब्रह्मन्मायातीर्थे महायशाः
लभते परमां पुष्टिं कुबेरभवनं यथा
अथवा म्रियते तत्र मायातीर्थे यशस्विनि
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
यस्तत्र स्नाति कश्चिद्वै वैशाखस्य तु द्वादशीम् 126.
अथात्र मुंचते प्राणांस्तीर्थे सार्षपके तथा
पुनरन्यत् प्रवक्ष्यामि शृणुष्व शुभलोचने
तत्र सर्वा भवेद्गङ्गा शीतलं जायते जलम्
स्नातो गच्छति सुश्रोणी सोमलोके महीयते
ततः स्वर्गात्परिभ्रष्टो ब्राह्मणश्चैव जायते
अथवा म्रियते तत्र मासि मार्गशिरे तथा
तत्र पश्यति मां नित्यं दीप्तिमन्तं चतुर्भुजम्
पुनरन्यत्प्रवक्ष्याभि तच्छृणुष्व वसुन्धरे ।। अनन्यमानसो भूत्वा भक्तो भागवतो मम
तस्मिंस्तीर्थे तु यः स्नाति कदाचिदपि मानवः