एतत्ते कथितं भद्रे त्वया यत्पूर्वमीप्सितम्
अथ कुब्जाम्रकमाहात्म्यारम्भः श्रुत्वा मायाबलं ह्येतद्धरणी संशितव्रता
धरण्युवाच न तत्राहं विजानामि पूर्वमुक्तं च यत्त्वया
यच्च कुब्जाम्रके पुण्यं पुष्टिस्तस्य सनातनी
वराह उवाच यच्च कुब्जाम्रके पुष्टिर्यच्च तीर्थमनिन्दिते
तच्च कार्त्स्न्येन मे देवि शृणु तत्त्वेन सुन्दरि
यच्च कर्म यतो भूमे स्नातो याति मृतोऽपि च
मधुकैटभौ तथा हत्वा ब्रह्मणो वचनात्तदा
पश्यामि तं नतं भूमे रैभ्यं नाममहामुनिम्
युक्तिमन्तं गुणज्ञं च शुचिं दक्षं जितेंद्रियम्
सहस्रं चांबुभक्षेण तथा शैवालभक्षणम् 126.
इतः प्रीतोऽस्म्यहं देवि रैभ्यस्य च महात्मनः
ततो वै तप्यमानं तं गङ्गाद्वारमुपागतम्
दर्शितोऽयं मया चात्मा हेतुमात्रेण केनचित्
एवं कुब्जाम्रकं ख्यातं स्थानमतेन्मनस्विनि
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
एवं तत्र मया दृष्टः कुब्जरूपं समास्थितः
नमस्कृत्य स्थितं तं तु मुनिं वै संशितव्रतम्
ममैव वचनं श्रुत्वा स मुनिस्तपसान्वितः
यदि प्रसन्नो भगवाँल्लोकनाथो जनार्द्दनः
यावल्लोका धरिष्यन्ति तावच्चैव महाप्रभो 126.
त्वयि भक्तिः सदा भूयाद्यावत्स्थानं जनार्द्दन
एतदेव परं चित्ते मया चैव विधार्यते
ततस्तस्य वचः श्रुत्वा रैभ्यस्यर्षेरहं पुनः
ममैवं वचनं श्रुत्वा ब्राह्मणः स वसुन्धरे
एतस्य तीर्थवर्यस्य महिमानं त्वया प्रभो
अन्यानि यानि तीर्थानि एतत्क्षेत्राश्रितानि तु
शृणु तत्त्वेन मे ब्रह्मन्यन्मां त्वं परिपृच्छसि
तीर्थं तु कुमुदाकारं तस्मिन् कुब्जाम्रके स्थितम्
कौमुदस्य तु मासस्य तथा मार्गशिरस्य च