अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व द्विजोत्तम
त्वया न तत्कृतं किंचिच्छुभं वाशुभमेव वा 125.
यत्त्वया दुष्कृतं कर्म व्यभिचारश्च तत्र वै
भवान्तरे कृतं यच्च येनेदं प्राप्तवान्महत्
मम भक्ता द्विजाः शुद्धा यत्त्वया नाभिवादिताः
ये च भागवताः शुद्धास्ते नूनं मम मूर्त्तयः विदितोऽस्मीह विप्रेन्द्र तैरहं नात्र संशयः
मम दर्शनकामा ये ते मे भक्ता द्विजास्तथा
विशेषेण कलौ ब्रह्मन्द्विजरूपो ह्यवस्थितः
यो मां प्राप्तमिहेच्छेत यस्यावाच्यं न विद्यते
गच्छ ब्राह्मण सिद्धोऽसि यदा प्राणान्विमोक्ष्यसि
एवमुक्त्वा वरारोहे तत्रैवान्तर्हितोऽभवम् कृत्वा सुदुष्करं कर्म श्वेतद्वीपमुपागतः
धन्वी तूणी शरी खड्गी मायाबलपराक्रमः 125.
मायया किं तव धरे न मायां ज्ञातुमर्हसि
एतत्ते कथितं भूमे मायाख्यानं महौजसम्
आख्यानानां महाख्यानं तपसां च परन्तपः
नित्यं पठेद्यो भक्तेषु अभक्तेषु न कीर्तयेत्
अग्रतः पृच्छता शूद्रमद्भक्तेषु तथाग्रतः
कल्यमुत्थाय यो भूमे पठते च दृढव्रतः
अथ पूर्णेन कालेन पुमान्पंचत्वमागतः
य एवं शृणुयान्नित्यं महाख्यानं वसुन्धरे
एतत्ते कथितं भद्रे त्वया यत्पूर्वमीप्सितम्
अथ कुब्जाम्रकमाहात्म्यारम्भः श्रुत्वा मायाबलं ह्येतद्धरणी संशितव्रता
धरण्युवाच न तत्राहं विजानामि पूर्वमुक्तं च यत्त्वया
यच्च कुब्जाम्रके पुण्यं पुष्टिस्तस्य सनातनी
वराह उवाच यच्च कुब्जाम्रके पुष्टिर्यच्च तीर्थमनिन्दिते
तच्च कार्त्स्न्येन मे देवि शृणु तत्त्वेन सुन्दरि
यच्च कर्म यतो भूमे स्नातो याति मृतोऽपि च
मधुकैटभौ तथा हत्वा ब्रह्मणो वचनात्तदा
पश्यामि तं नतं भूमे रैभ्यं नाममहामुनिम्
युक्तिमन्तं गुणज्ञं च शुचिं दक्षं जितेंद्रियम्