ततोऽहं तेन चाप्युक्तस्तर्हि द्रक्षत्यलं भवान्
अहं मायाप्रलोभेन गङ्गातीरमुपागतः ततः स्नानविधानेन निमग्नस्तज्जलेऽमले ।। 125.
न तत्र किंचिज्जानामि किमिदं किं प्रवर्त्तते
केनचित्कारणेनात्र प्रविष्टो जाह्नवीजले
निषाद पश्य कुण्डीं च मात्रां वस्त्रं यथा पुरा दण्डवस्त्रादि यत्किंचिन्न जीर्णं गङ्गया हृतम्
एवं तेन ततश्चोक्ता निषादोऽदृश्यतां गतः
स ततो ब्राह्मणो देवि तपस्तपति निश्चितम्
तस्य प्रतिष्ठमानस्य अपराह्णं तु जायते
कर्मण्यानि च पुष्पाणि आहृत्य श्रद्धयान्वितः
वृतस्तु ब्राह्मणैर्मुख्यैर्गङ्गास्नानेषु वै द्विजः
पूर्वाह्णे स्थापयित्वात्र मात्रां कुण्डीं त्रिदण्डकम् विस्मृतं किं त्वया स्थानं कथं शीघ्रं न चागतः
ततो विप्रवचः श्रुत्वा तूष्णीमासीन्मुनिस्तदा 125.
एतस्मिन्नंतरे देवि स च ब्राह्मणपुंगवः
कथमेतावतङ्कालं मामूचुर्ब्राह्मणाश्च किम् कथं कालेऽनुसम्प्राप्तः किमेतदिति भाषते
एतस्मिन्नंतरे देवि ब्राह्मणाय ततो मया
किमिदं भ्रांतरूपोऽसि किं वा त्वं दृष्टवानसि
एवमुक्तः स तु मया भूमौ कृत्वा शिरः स्वकम्
अहो देव द्विजा एते मां वदन्ति जगद्गुरो आगतोऽस्यपराह्ने किं स्थलं विस्मृतवानसि
अहं व्याधस्य वै भूत्वा भार्या च व्याधयोनिजा
तस्माच्चैव त्रयः पुत्रास्तिस्रश्चापि च कन्यकाः
स्नातुं कदाचिद्गङ्गायां गतोऽहं तीरभूमिगः उन्मज्य स्वयं पुनश्चैव प्राप्तो रूपं मुनिस्तुतम्
किं मया विकृतं कर्म सेवमानेन माधव 125.
भक्षितं किमकर्मण्यं सेवमानेन चाच्युत
एतदाचक्ष तत्त्वेन येनाहं नरकं गतः
मायालुब्धेन हि मया पूर्वं विज्ञापितो ह्यसि
ततस्तस्य वचः श्रुत्वा कारुण्यपरिदेवितम्
मा दुःखं कुरु विप्रेन्द्र आत्मदोषसमुद्भवम् येन दुःखमनुप्राप्तं तिर्यग्योनिं च वै गतः
उक्तमेव मया पूर्वं शृणु ब्राह्मणपुङ्गव
ददामि दिव्यभोगान्वै भौमान्वापि तवेप्सितम्
दृष्टा तु वैष्णवी माया या त्वया ब्राह्मणेप्सिता वर्षाणि चैव पंचाशान्निषादस्य गृहेऽपि न