शीघ्रं गच्छ स्वकं देशमेतान् गृह्य स्वबालकान्
स तेन चोदितो ह्येवं निषादो नावगच्छति 125.
किं त्वया दुष्कृतं कर्म कृतं पूर्वं पुरातनम्
केन दोषेण प्राप्तस्त्वं स्त्रीत्वं भूत्वा पुमान् पुनः
एवं तस्य वचः श्रुत्वा स ऋषिः संशितव्रतः
निषाद शृणु तत्त्वेन मत्कथां च प्रजल्पतः
एकभक्तं मयाचारे अभक्ष्यं चैव वर्जितम् कर्मभिर्बहुभिश्चैव मया दर्शनकाङ्क्षिणा
अथ दीर्घेण कालेन मया दृष्टो जनार्द्दनः
मया नाभीप्सितस्तस्माद्दीयमानो वरस्ततः
ततो मां भाषते विष्णुर्मायां दृष्ट्वा ह्यलं द्विज
ततोऽहं तेन चाप्युक्तस्तर्हि द्रक्षत्यलं भवान्
अहं मायाप्रलोभेन गङ्गातीरमुपागतः ततः स्नानविधानेन निमग्नस्तज्जलेऽमले ।। 125.
न तत्र किंचिज्जानामि किमिदं किं प्रवर्त्तते
केनचित्कारणेनात्र प्रविष्टो जाह्नवीजले
निषाद पश्य कुण्डीं च मात्रां वस्त्रं यथा पुरा दण्डवस्त्रादि यत्किंचिन्न जीर्णं गङ्गया हृतम्
एवं तेन ततश्चोक्ता निषादोऽदृश्यतां गतः
स ततो ब्राह्मणो देवि तपस्तपति निश्चितम्
तस्य प्रतिष्ठमानस्य अपराह्णं तु जायते
कर्मण्यानि च पुष्पाणि आहृत्य श्रद्धयान्वितः
वृतस्तु ब्राह्मणैर्मुख्यैर्गङ्गास्नानेषु वै द्विजः
पूर्वाह्णे स्थापयित्वात्र मात्रां कुण्डीं त्रिदण्डकम् विस्मृतं किं त्वया स्थानं कथं शीघ्रं न चागतः
ततो विप्रवचः श्रुत्वा तूष्णीमासीन्मुनिस्तदा 125.
एतस्मिन्नंतरे देवि स च ब्राह्मणपुंगवः
कथमेतावतङ्कालं मामूचुर्ब्राह्मणाश्च किम् कथं कालेऽनुसम्प्राप्तः किमेतदिति भाषते
एतस्मिन्नंतरे देवि ब्राह्मणाय ततो मया
किमिदं भ्रांतरूपोऽसि किं वा त्वं दृष्टवानसि
एवमुक्तः स तु मया भूमौ कृत्वा शिरः स्वकम्
अहो देव द्विजा एते मां वदन्ति जगद्गुरो आगतोऽस्यपराह्ने किं स्थलं विस्मृतवानसि
अहं व्याधस्य वै भूत्वा भार्या च व्याधयोनिजा
तस्माच्चैव त्रयः पुत्रास्तिस्रश्चापि च कन्यकाः